SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वादश कुलकम् । ॥। ४२ ।। विलीभवति मन:- चित्तं, तथा 'ज्वलति' दीप्यते 'कषायानलः' संपरायवैश्वानरः, तथा 'वयः' तारुण्यलक्षणोऽवस्थाविशेषो 'गलति' नश्यति, तथा 'नित्यं' सर्वदा 'मृत्युः परिकलयति' समासन्नीभूय गृह्णाति ततश्च 'दलति' विशरारु भवति 'जीवन' जीवः प्राणधारणम्, अयमभिप्रायः- शारीरवलमनः सामर्थ्य क्रोधाद्यभावादयः षड् धर्मकरणहेतवस्ते च दिने दिने मन्दायन्ते इति, 'टलति' अतिक्रामति 'कालो' धर्मविधानसमयः, एते हि षडपि धर्मसाधनात्यन्तोपकारिण-स्ते च सर्वेऽपि अनित्या इति, यथाशक्ति धर्मविधानोपदेश इति गाथार्थः ॥ २३ ॥ यत एवं दिने दिने ह्रासः सर्वस्य सुकृतसाधनस्य ततः किं कर्त्तव्यमित्यत आह- तुम्हा खणमवि न खमं निलंबिउं जं च कुसलतामग्गी । सहसति दिट्ठनट्ठा हरिचंदउरि व सबावि ॥२४॥ व्याख्या - यस्मादेतदेवं 'तस्मात् क्षणमपि' अतिसूक्ष्मकालमात्रमपि परमाणुव्यतिक्रान्तिकाल एकः क्षणो मतः, यांवता कालेन परमाणुना परमाणुरतिक्रम्यते स क्षण- स्तमपि आस्तां मुहूर्त्तादिकमित्यपेरर्थः । 'न क्षमं' नैवोचितं 'विलम्बितु' विक्षेपं कर्त्तु, ग्रन्थकारोऽतिकारुणिकतया कारणान्तरमपि उपदर्शयन् त्वरयति - 'यचं' यतश्च 'कुशलसामग्री' पुण्यसाधनसमग्रता सद्गुरुसाधर्मिकादिसंसर्गरूपा, 'सहसा' झगिति 'दृष्टनष्टा' दृष्टा सती क्षणेनेव नश्वरी, उपमानमाह 'हरिचन्द्रपुरीष' शीतकाले प्रातःक्षणे कचित् कदाचित् कस्यापि प्राकारजनसंचारादिदर्शनं लोके हरिश्चन्द्रपुरीति निर्दिश्यते सा च क्षणमात्रदर्शनानन्तरमुपरमते इति तया उपमानं सामयाः, 'सर्वापि' समस्तापि इति गाथार्थः ॥ २४ ॥ 84 चतुर्थं कुलकम् । ४
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy