SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ द्वादशकुलकम् । ॥ ४१ ॥ ते- 'उपदेशो न दातव्यो यादृशे तादृशे नरे' इति, न केवलं परस्मिन्नुप देशप्रेरणे कर्तव्ये, किन्तु 'स्वस्थापि' आत्मनोऽपि कैश्विदन्यै - गीतार्थप्रायैः क्रियमाणं स्मारण-वारण - नोदनमिति समाहारद्वन्द्वः 'इच्छेद्' -अभिलषेद् अङ्गीकुर्यादित्यर्थः । तत्र स्मारणं विस्मृते प्रत्युपेक्षणादी, वारणम् अनाभोगात् पृथिव्याधुपमर्द प्रवृत्ते, नोदनं वाक्कलहादिप्रवृत्ते मनागू निठुरशिक्षादानम् उपलक्षणत्वात् प्रतिनोदनमपि प्रहारादिप्रवृत्ते गाढतरशिक्षादानरूपं द्रष्टव्यं तदुक्तम् - " पम्हुडे सारणा बुत्ता अणायारस्स वारणा । चुक्काणं चोयणा भुज्जो निडुरं पडिचोयणा" ॥ १ ॥ यो हि अन्येषु स्मारणादिकं करोति स्वयं चान्यैः क्रियमाणं न क्षमते नासौ श्राद्ध इति भाव इति गाथार्थः ॥ २० ॥ शुद्धव्यापारोपदेशादिकमुक्त्वा सांप्रतं यादृशं वचनमभिधेयं तादृशमाह - सच्चमघट्टियमम्मं सम्मं सइ धम्मकज्जसज्जं च । हियमियमहुरमगवं सवं भासेज मइपुत्रं ॥ २१ ॥ व्याख्या - सर्व वचनं भाषेत इति योगः कीदृशमित्याह- 'सन्तो' जीवादयस्तेभ्यो हितं सत्यं सत्यभाषावर्गणानिप्पनं वा सत्यं येन यदुत्कोचा ग्रहणादिकं गुप्ततयैत्र क्रियते तत् तस्य मर्म, ततश्च 'घट्टितं' चालितं प्रकाशितं मर्म येन तत् तथा ततोऽन्यदघट्टितमर्म, तथा सम्यग् यथावस्थिताक्षराभिधेयं, तथा 'असकृत् ' सर्वदा धर्मकार्ये साधुसाधर्मिकत्रात्सस्यादिप्रतिबद्धे सज्जं प्रगुणं तत्साधकमित्यर्थः, 'चः' समुच्चये, तथा हितं सर्वस्यानुकूलं मितम् - अल्पं, मधुरम् - अपरुषम्, अग स्वोत्सेका प्रकाशकं 'सर्व' समस्तं व्यवहारादिविषयमपि 'भाषेत' जल्पेत् श्रावकः, 'मतिपूर्वमिति' मत्या पूर्व युक्तायुतत्वेन विमृश्य इति गाधार्थः ॥ २१ ॥ 82 चतुर्थ कुलकम् । ४ ॥ ४१ ॥
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy