________________
.
. . अन्यच्च
चतुर्थ कुलकम् ।
द्वादशवनस्यैव प्रायः संसारवैराग्यहेतुत्वात् , अनेनाचार्यादिविषयं राग प्रशस्तमेवाह-सदाकालं' सर्वदेति गाथार्थः ॥ १५॥ कुलकम् ।
अन्यच्चदक्खिन्नमपेसुन्नं भवनिग्गुण्णं च दुहियकारुन्न । मन्निजन्नपि मणम्मि निम्मले निच्चमिच्चाइ ॥ १७॥ ॥४०॥
ध्याख्या-दाक्षिण्यम्-अपैशून्यम्-अदौर्जन्यं भवनैर्गुण्यं च दुःखितकारुण्यमिदं सर्व प्रसिद्धमेव, मनसि निर्मले कपाया-1 धदूषिते, न केवलमेतत् किन्तु अन्यदपि इत्यादि एवं प्रकारं संसारवैराग्यनिमित्तमशरणत्व-कायाशौचादिकं नित्यं सर्वदा मन्येत परिभावयेदिति गाथार्घः ॥ १७ ॥
अथ रूपकालङ्कारेण सपरिकरमोहध्वंसमुपदिशन्नाहहणिऊण कोहजोधं माणगिरिं दलिय मलिय मायलयं । दहिउं लोहपरोहं मोहपिसायं विणासिन्जा १८ ___ व्याख्या-'हत्वा' विनाश्य क्रोध एवातिवलवत्त्वाद् योधः सर्वयुद्धनिपुणः पदाति-स्तम् । तथा मान एवातिगौरवदर्शनहेतुत्वाद् "गिरिः' पर्वत-स्तमपि 'दलयित्वा' संचूर्ण्य तथा 'मलियचि मृदेर्मलादेशे 'मृदित्वा नि:पिण्य 'मायालतां' निकृतिवल्ली, तथा दुग्ध्वा भस्मसात्कृत्य 'लोभमरोह' गाड्यांजरम् । एवं समस्तसप्रभेदकषायान् , उपलक्षणतया चैषां नोकपायानदि तत्परिकरभूतान् विध्वस्त (स्य)मोहश्चतुर्थ कर्म स एवातिदारुणदुःखदायित्वात् चिन्त्य(न्तय)मानस्यापि अतिभयहेतुत्वाद पिशाचो' व्यस्तरविशेषः, तं विनाशयेत् क्षयं नयेत्, क्षपितसमस्तसैन्यराजवत् तस्य सुविनाशत्वादिति गाथार्थः ॥१८॥