________________
व्याख्या-यं गुणं यत्र जानीयात् तं तत्र पूजयेदिति योगः । यत्र कापि साधुसाधर्मिकाद सम्यक्त्वज्ञान चरणानुपातिनं तदनुगतं गुणं यं कंचन क्षमादिकं, कश्चित् तदनुगतो गुणः तपो - व्याख्यानादिको न गुर्वाज्ञानुगतः स्यात्, तद्व्यवच्छे'दार्थमाह-'आज्ञानुगतं' गुर्वादेशकलितं तदाज्ञावैकल्ये तपश्चरणादेरपि अनन्त संसारहेतुत्वेन श्रवणात्, 'जानीयात्' स्वबुद्ध्या विद्यात्, तं गुणं तत्र साध्वादी पूजयेत् प्रशंसादिना पुरस्कुर्यात् 'परमभक्त्या' प्रकृष्टगुणबहुमानेन, अयमभिप्रायो यस्य | वैयावृत्यकरादेः सद्गुणस्यैव यं वैयावृत्यकरणादिकं (गुणं) पश्येत् तं तत्र विशेषतो बहुमानेन पूजयेत्, न तु निर्गुणस्य सतस्तद्गुणमात्रं, तदुकम् -'नाणं दंसणचरणं तवविणयं जत्थ जत्तियं पासे । भावं जिणपन्नत्तं तु पूयए परमभत्ती ॥ १ ॥' इति गाथार्थः ॥ १५ ॥
मध्यस्थभावेन गुणागुणविभागः कर्त्तय्यः इत्याह
काऊण रागचागं मणे मुणिज्जा गुणागुणविभागं । भाविज्ज कडुविवागं च कामरागं सयाकालं ॥ १६ ॥
व्याख्या- 'कृत्वा 'विधाय 'रागस्य' प्रेमानुबन्धस्य त्यागं, द्वेषोपलक्षणं चैतत्, ततो 'मनसि' चित्ते ('सुणिज्जा' जानीयात् ) गुणागुणत्रिभागम्, अमध्यस्थो हि नैतत् कुर्यात्, तदुक्तम् - " रत्ता पिच्छंति गुणा दोसा पिच्छंति जे वि रचंति । मज्झत्था पुण पुरिसा दोसे वि गुणे वि पिच्छति ॥ १ ॥ " मध्यस्थीभूय साध्वादीनामपि गुणागुणौ चिन्तनीयौ इति भावः । तथा भावयेद्अनुचिन्तयेत् 'कटुविपाकम् अत्यन्तदुःखदायि पर्य्यन्तं कमित्याह- 'कामः' पूर्वोक-स्वद्रूपो रागोऽभिष्वङ्गः:
तदुभा
79