________________
दक्खिन्नं च कयन्नुयं च विणयं गंभीरिमं धीरिमं जं चन्नं कुलधम्मसंमयमहो सेवेह तं सबहा॥१३ व्याख्या-हृदयं तावदीदृशं कुरुत इति योगः, 'स्वच्छ' दुरध्यवसायपङ्कवैकल्येन निर्मलं, तथा क्षीयमाणवस्त्वपरित्यागेच्छामत्सरः, अथवा परसंपदसहन सति विभवे त्यागाभावो वा, तथाचाहुः शाब्दिकाः “परसंपदामसहन वित्तात्यागश्च मत्सरो ज्ञेयः" । 'मोहः' स्वजनादिषु आत्यन्तिकः स्नेहः, 'लोभः' पूर्वोक्तस्वरूप-स्ततोद्वन्दस्त रहितं वर्जितं, तथा निकामक्रोध तत्र कामः कामिनीविषयोऽभिलाषः, कोधः प्रज्वलनात्मको भावः, निर्गतौ कामक्रोधी यस्मात् तनिष्कामक्रोधम् , तथा जात्यादिभिरष्टाभिरपि आत्मोत्कर्षप्रत्ययो मद-स्तेन मुक्तं रहितं वर्जित, वचनवेषाद्यन्यथादर्शनेन परव्यसनं कपट मायाविशेषा, ततो निर्गतं कपटं यस्मात् तचथा, 'कुरुत' विधत्त 'हृदयं' चिस, अत्र कामस्य वेदोदयरूपस्य उपलक्षणत्वा-दम्येपि नोकपायभेदा द्रष्टव्यास्ततश्च कषायचतुष्टय-नोकषायनवकस्यापि यथाशक्ति मनसि रोधो विधेय इति भावः, तथा बधसापि मा कांचन हीलयत तत्र हीलनं सद्भिरभिर्वा दोषैः परेषां दूषणम् 1 उपलक्षणम् चैतत्तेन खिंसनपारुण्याविकमर्षि वचसि परिहार्य। कायेन पुनः कर्सव्यं कथयमेवाकर्तव्यनिषेधं दर्शयति-दाक्षिण्यम्'-अनुकूलता, 'कृतज्ञता विहितोपकाराविस्मरणं, चशब्दौ तुल्ययोगख्यापकौ, "विनयों' नम्रत्वं 'गंमीरिमा' गाम्भीर्य, 'पीरिमा' धैर्यम्, एतत् सर्व कायनापि सेवत (सेवच), किमेतावदेवेत्याह, 'पञ्चान्यदपि' एतस्माद् दाक्षिण्यादे-रपरमपि पापजुगुप्सा-निर्मलबोधाविक कीमिसाह, 'कुलस्य' गोत्रस्य 'धर्मस्य' श्राद्धसम्बन्धिनः 'संमत' तदविरुद्धम् , 'अहो' इति संबोपने सद सेवता म र्मदा रेणानुतिष्ठत, 'सर्वदा सर्वकालं सर्वप्रकारेण वा । इति वृत्तार्थः॥ १३॥