________________
द्वादशकुलकम् !
॥ ३३ ॥
व्याख्या-‘कारुण्यं' निराशंस- परदुःखप्रहाणेच्छा, तत् यावद् 'दुःखितेषु' व्याधितेषु सर्वेष्वपि कुरुत इति योगः, 'गुणिषु' ज्ञानादिगुणोपेतेषु आचार्यादिषु महर्ष - स्तद्दर्शनात् प्रकृष्ट- स्तद्विषय - स्तद्गुणानुमननरूपः प्रमोद-स्तम् । तथा 'सर्वसत्त्वैषु' तिर्यगादिषु अपि 'मैत्री' सौहार्द, 'दोपासक्तेषु' वधादिप्रवृत्तेषु व्याधादिषु उपेक्षां हेयोपादेयतापराङ्मुखी बुद्धिं माध्यस्थ्यमिलरी, कुरुत इत्युपदेशः 'येति' समुच्चये, कल्याणमित्राणाम् - असदुपदेशप्रवृत्तपापमित्राणां 'त्यागं परिहारं कुरुत इति सर्वत्र वृत्तप्रथमार्थे योज्यम् । तथा 'जिनेन्द्राणाम्'- अर्हतां 'प्रवचनं' द्वादशानं, तदाधारा आचार्यादयश्च तेषु 'प्रत्यनीकाः' परिपन्धिनो विनाशप्रवृत्ता इति यावत् तेषां दुरात्मनां, 'सर्वस्थाना' सर्ववलेन " अनुस्वारः प्राकृतत्वात्”, स्वयं तावतं सामदानदण्डादिना परेण वा राजादिना पर्य्यन्ते जीवितसंशयारोपणेनापि मानप्रणाश- महंकारखण्डनं निराकरणमिति यावत् । तथा 'पूजां' सपर्या पूज्येषु तीर्थकृत्सु साधुसंघादिषु, तथा साधम्मिकाः ये प्रवचनतः समानधर्माणो नतु लिङ्गत एव त एव 'स्वजनजनो' बन्धुवर्ग-स्तत्र 'सह धम्मरया (परा) महबंधव त्ति' वचनात् अथवा साधर्मिकाच स्वजनजनाश्चेति एकवद्भावः तत्र वत्सलत्व - माहारादिदानेन चित्तसमाधानोत्पादकत्वं, 'विधत्त' कुरुत इति वृद्वितीयार्द्धे क्रियान्तरसम्बन्ध इति वृत्तार्थः ॥ १२ ॥
अथ मनोवचनकायानां शुद्धत्वमभिधातुं तेषां दोषविकलत्वं तावदाहसच्छं मच्छरमोहलोहरहियं निकामकोहं मउमु (म्मु) कंनिक्कवर्ड करेह हिययं हीलेह मा केइ वि ।
66
तृतीयं
कुलकम् । ३
॥ ३३ ॥