SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ नपरिहारमभिधाय, अथोत्कृष्टमध्यमजघन्यसाधुविषयं कृत्यविशेषमाह-'ज्ञानिना' सम्यग्बोधभाजा'चरणोधतानां संपूर्ण-1 शुद्धक्रियाकारिणां च शुद्धसुविहितानामिति भावः । 'सदा' कृत्यं ग्लानाद्यवस्थासु पथ्यौषधादिदानरूपं, 'कुरुत' विधत्त, आदरात् सर्वथापि एपां कर्त्तव्यमित्यध्यवसायात्, 'निःशेष' समस्तं कदाचिदशुद्धमपीति भावः। उपलक्षणं चैतत् वेन क्वचिद् ज्ञानाधिके पात्रे किंचिक्रियाविकलेऽपि कृत्यं किंचित् कर्त्तव्यमेव । तथा 'जनरञ्जनार्थ लोकषिचावर्जनाय पुनलिंगावशेषाणामपि ज्ञानक्रियावैकल्येन लिङ्गमेव रजोहरणमुखवस्त्रिकादिमात्रमेव यतित्वमध्यादवशिष्यते इत्यवशेषणे येषां ते तथा तेषाम् । अपिशब्दोऽरुच्युपदर्शकः, अयमभिप्रायः-ये तावत् ज्ञानक्रियावन्तस्त द्विषये तावत् शुद्धमशुद्धं वा पथ्यादिकं चिन्तनीयं । यस्तु ज्ञानमात्रवान् शुद्धप्ररूपकश्च तद्विषयं शुद्धमेव । यस्तु लिङ्गमात्रावशेषस्तद्विषये शुद्धमपि यत् क्रियते तल्लोकरञ्जनार्थमेव, एते हि श्राद्धाः स्वदर्शनेऽपि मत्सरिण इति मा ज्ञासिषुर्लोकाः । न चैतदनाः, तथा चागमः-"निच्च पवयणसोहाकराण चरणजुयाण साहूणं । संविग्गविहारीणं सवपयत्तेण कायबं ॥१॥ होणस विसुद्धयरूपगस्स नाणाहियस्स काय जणचित्तग्गहणत्यं करेंति लिंगावसेसेऽयि ॥२॥" इति वृत्तार्थः॥११॥ अथ मैत्र्यादिचतुष्टयप्रभृतिकं कृत्यमाहकारुन्नं दुक्खिएसुंगुणिसु पहरिसं सबसत्तेसु मिति, दोसासत्तेसुविक्खं कुणह तह अकल्लाणमित्ताण चायं। सवत्थामं जिणिदप्पवयणपडणीयाण माणप्पणासं, पूयं पुजेसु साहम्मियसपणजणे वच्छलत्तं विहेह.१२
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy