________________
द्वादश-चिचे चिंतेह तत्तं तदवगमक्सा सबकजे कुवोहं, हंतुं मोहं च निच्चं जयह नियमणे काउमाणं जिणागती कुलकम् । | व्याख्या-'संविग्नान्' मोक्षाभिलाषुकान्, तादृशा अपि कुग्रहवन्तो न सुसाधव इत्याह, 'कुग्रहा' पूर्वोक्ताः कदमिनि । कुलकम्
वेशाः, ते एव जन्तुस्वभावान्यथाकरणप्रवणत्वाद् 'उग्रग्रहा' रौद्रभूताचावेशा-स्तै 'रहिता' वर्जिता 'तनुः' शरीरं येषा तथा, उपलक्षणं चैष मनोऽपि तादृशमेव येषां तेन मनसा तन्या च कदाग्रहाविधायिन इत्यर्थः। एवंविधा अपि अबहुश्रुता उपदेशाक्षमत्वेन न सेवाहीः स्युरिति अत आह-शुद्धमुत्सूत्रव्याख्यालेशमात्रेणापि अस्पृष्टं सिद्धान्तमागर्म धारयन्ति सूत्रार्थाभ्यामधिगच्छन्ति ये तान् , 'साधून्' सुविहितान्, सेवत(ध्वं) नियमेन समाराधयत, ततस्तेभ्यः साधुभ्यः जिनमत तीर्थकरप्रवचनम् , 'अनघं समस्तदोषरहितत्वेन निरवा, कीदृशाः सन्तः शृणुत भक्तियुक्तास्तत्र पञ्चाङ्गप्रणिपातशिरोनमनाअलिप्रग्रहादिरूपा वाह्या प्रतिपत्ति-भक्तिस्तत्सहिताः 'शृणुत' आकपर्णयत एवं तावद् विधिप्रवृत्ते-रादिकारणं सद्गुरुसेवा-त्रोंकेति । ततः किमित्याह-'चित्ते' मनसि चिन्तयत पुनः पुनरनुध्यायत, 'तत्वं श्रुतजिनमतरहस्यम् उस्सग्गापवादलोकविरोधादिकृत्याकृत्यत्वरूपेण न तु अक्षरमात्रपरतया इतिभावः, ततस्तदवगमवशात् सम्यक्त्वावगमपारतच्येण, सर्वकार्य इति जातावेकवचनम् तेन 'समस्तेषु' सर्वेषु 'कार्येषु चैत्ययतिसाधर्मिकादिप्रयोजनेषु'कुबोध चैत्यार्थ स्थावरगृहादिविधानमपि समीचीनमेव इत्यादिकं 'मोहं', चाज्ञानं विपर्ययज्ञानरूपं 'हन्तुं हत्वा विध्वस्य आज्ञा कर्तुं यतेत(यतध्वं) अथवा न केवलमें
तद् द्वयमेव हन्तुं ध्वंसितुं यतध्वमपि तु “निजमनसि' स्वकीयचित्ते कत्तुं विधातुं जिनानामाज्ञां च तीर्थकरोपदेशं च विधात रयत्नं कुरुत, तेन यतध्वमिति क्रिया काकाक्षिगोलकन्यायेन उभयत्रापि योजनीयेति वृत्तार्थः॥८॥
PALAGE