________________
भो तुभे मिलसेह तस् य परो हेऊ जिणिंदोदिओ,
धम्मो तस्स उ साहये कि वही सिद्धंतसिद्धो इमो ॥ ७ ॥
व्याख्या - यत एते भावाः सर्वेऽपि क्षणिकस्येन असाराः, तत-स्तन्मयत्वेन संसारोऽपि असार एव, न हि नीलतन्तु निर्मितः पटः कदाचित् शुक्ल इति, 'तस्माद्' भवद्भिरेवम्-अमारं तुच्छं संसारम्-अखिलं संपूर्ण 'ज्ञात्वा' ऽवगम्य ततस्तं 'छेत्तु' विनाशयितुमिति यावत्, न केवलं तं छेत्तुं किं तु मोक्षं च लब्धुं तत्प्राप्तयेऽपीत्यर्थः । 'घः' समुच्चये भिन्नक्रमश्च योजित एव, कीदृशमित्याह तद्विपरीतमसारसंसाराद् अन्यथास्वभावं सारमित्यर्थः कथमेतदेवमित्याह “अक्षयसुखं” शाश्वतानन्दं, भवत्येवंविधस्य मोक्षस्य दुःखैकरूपात् संसारात् विपरीततेति तं लब्धुं भो भन्या ? 'यूयं' सुखार्थिनः शाश्वतानन्दसस्पृहा 'अभिलपत' वाञ्छत, तस्य मोक्षस्य संसारोच्छेदस्य च 'परः' प्रकृष्टो हेतुः कारणं, चोऽवधारणे तेन हेतुरेव इत्यर्थः । क एवंविधमि (इ) त्याह-'जिनेन्द्रोदितो' वीतरागोपदिष्टो धर्मः संसारगर्त्तनिपतजन्तुजातधारणाप्रवणोऽध्यवसायं (यः) तत्पूर्वकमनुष्ठानं च, 'तस्य' तु धर्मस्य पुनः 'साधने' निष्पादने किलेत्याघवादे, सिद्धान्तसिद्धः श्रुतप्रतीतोऽयं वक्ष्यमाणो विधिः प्रवृत्तिप्रकारः, एवं प्रवर्त्तमानानां धर्मों जायते इति भाव इति वृत्तार्थः ॥ ७ ॥
अथ तमेव विधिमुपदर्शयिष्यन् प्रथमं तावद् विध्युपदेष्टृषु साधुसेवामाह--- संविग्गे कुग्गहुग्गग्ग हरहियतणू सुद्धसिद्धतधारी, साहू सेवेह तत्तो जिणमयमहं भत्तिजुत्ता सुणेह ।
59