SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ व्याख्या- 'कामालङ्कृतः स्मरविभूषितः सकाम इति यावत् यः 'कामिनीजन: ' स्त्रीवर्गस्तस्य विलासेन प्रियदर्शनकालसमुद्भूतशरीरक्रियाविकारविशेषेण 'उल्लासि' सविकारदर्शनप्रवृत्तं यद् 'नेत्रोत्पलं' लोचनकमलं तद्वद् 'उत्ताल' - मतिचपलं, तथा 'निर्जित दुर्जयारिविसरं' वशीकृतातिबलिष्ठशत्रुसमूहं किं तदेवंविधमिलाद राज्यमपि प्रसिद्धं वर्त्तते इति शेषः । 'संसारिणां' प्राणिनां तथा 'संयोगा' इष्टसम्बन्धा अपि, 'वियोगः' सम्बन्धविच्छेदः, इष्टबियोगे तल्लाभानईणज्ञानं शोकस्ताभ्यां 'बहुलाः प्रचुराः, संयोगेष्वपि वियोगादिबाहुल्यमित्यर्थः । 'मुखान्यपि' विषयोपभोगजा आनन्दा अपि 'दुःखावहानि' पर्यन्तबाधाकारीणि, अत्र च "नीयालोचमभूया य आणिया दोवि बिंदुदुग्भा" इति प्राकृतलक्षणाद् द्विर्भावः, पुलिङ्गता च, अपिशब्दाः सर्वेऽपि समुच्चयार्थाः, 'हा' इति खेदे 'सर्वे' समस्ता अपि 'विषयासङ्गाः' ख्याद्यभिष्वङ्गा 'जलबुद्बुदा इव', वेगवद्दृष्टिसमुद्भवसलिलस्फोटका इव सदा 'भङ्गुरा' नश्वराः, पूर्व हि जनितस्य सुखस्य अनित्यमभ्यधायि, अत्र तु विष|यसम्बन्धस्यैवेति न पौनरुत्तन्यमिति वृत्तार्थः ॥ ५ ॥ विज्जुज्जोयचलं बलं जलचलचंदाउलं राउलं, संमाणं करिकन्न तालतरलं लीलाविलासाइ वि । संज्झारायसमा यतायजणणीजाथाइसंगे रई, पच्चक्खं खर्णादिट्ठनद्रुमखिलं जं वत्थुमित्तं भवे ॥ ६ ॥ व्याख्या- 'विद्युदुद्योतवत्' क्षणिक संपाप्रकाशयत् [च]लं तरलं 'बले' शारीरसामर्थ्य, वर्त्तते इति शेषः । तथा जले प्रतिविम्बिततया चलन् प्रकम्पमानो यश्चन्द्रस्तद्वद् 'आकुलो' ऽतितरलो राजकुलः, राजकुलस्यायं राजकुलोऽण प्रत्ययः, 57
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy