________________
व्याख्या-यत एतदेवं 'ततः तस्मात् कारणात् 'भो' विचक्षणा? दुःखखानि भवं लक्षयत, इति योगः, कुतस्कुत इति हेतुत्रयमाह-सिद्धान्त आगमे भवस्य दुःखमा हेतुत्वेन प्रसिद्धि प्रख्यातिः, तत्र तत्र तस्य तथाभिधानात् , भवतां वा सिद्धान्तस्य प्रसिद्धिः प्रतीतिस्ततः, तथा स्वस्यात्मनो मतियथावस्थितवस्तुपरिच्छेदिनी बुद्धिः ततोऽपि, तथा प्रत्यक्षेण
साक्षात्कारिज्ञानेन लक्षणं लक्षः प्रतीति-स्तेनापि कारणभूतेन इति हेतुत्रय, वाशब्दो विकल्पार्थः, 'भो' इत्यामन्त्रणे, 'लक्षदायत प्रतिपद्यध्वं, 'विचक्षणा' विद्वांस इति श्राद्धानां संबोधनं, 'प्रतिक्षणं' निरन्तरं 'दुःखानां मानसादिबाधानां, खानिम्-आ
करं, 'भवं' चातुर्गतिक संसार, सर्वत्राप्यसुखभावात् , कुतः पुन-रेतदेव-मित्याह । यस्मादन भवे 'सफल' समस्तं वस्तुला सन् विद्यमानमायु-यौवनलक्ष्म्यादिक-मसत् क्षणिकत्वेन नश्वरम् । अत एव माया अन्याकर्तृकहरिश्चन्द्रपुर्यादे-रसद्वस्तुन उल्लेखः, 'इन्द्रजालम्' ऐन्द्रजालिकेन मन्त्रमूलादिप्रयोगेण भुजगपारापतकनोलकादिजीवाजीवदर्शनं ताभ्या-मुपमा क्षणिकत्वेन सादृश्य यस्य वस्तुन-स्तत् तथा, न केवलं क्षणिकमेवेदम् , अपि तु विपरीतपरिणतिस्वभावमपि किचित् , शत्रुबैरी-सोऽपि कथंचिदानुकूल्यं भजन् मित्रं सुहजायते, 'अहो' इत्याश्चर्ये, 'सुख्यपि आनन्दवानपि ईश्वरादिरसुखी व्याधिदौर्गत्यादिदुःखवान् , तथा चोच्यते-"सुखी दुःखी रङ्को नृपतिरथ निःस्वो धनपतिः, प्रभुदासःशत्रुः प्रियसुहृदबुद्धि-विशदधीः । धमत्यभ्यावृत्त्या चतसृषु गतिष्वेवमसुमान् बहा संसारेऽस्मिन् नट इव महामोहनिहतः ॥ १॥" एवं मायः सर्व वस्तु क्षणेनापि अन्यथा परिणामादाकुलं स्वस्वभावानवस्थितमिति वृत्तार्थः ॥३॥
55