________________
ARR9-29
म्भोपाध्यायखगिनः । सर्वे बाधाकरा आसंस्तदा तच्छिद्रवीक्षकाः॥ ५४॥ तथा लब्धे मनुष्यत्वे, प्रमादबहुलः पुमान्। पुनर्न लभते नृत्वं, कालेन बहुनापि हि ॥ ५५॥ ___ अथ चर्म। अतिबहलत्वनिविडत्वाभ्यां चर्मव चर्म शेवालसंचयः, तस्योदाहरणम् । यथा-लक्षयोजनविष्कम्भो, इदः कापि समन्ततः । शैवलेनावबद्धोऽस्ति, तदन्तः कच्छपादयः॥१॥ सन्ति सत्त्वा हि भूयांसस्तेष्वेकेन कथंचन । कालेन
बहुना छिद्र, कच्छपेन निपातितम् ॥२॥ तत्र ग्रीवां प्रसार्येष, यावदूर्व बिलोकते। कौमुदीसन्महे तावद्, वीक्षते चन्द्र 8 मण्डलम् ॥३॥ ग्रहनक्षत्रताराभि-रति(भिरामं तथाद्भुतम् । दृष्टा वि(व्य)चिन्तयत् सोऽथ, किमिदं महदद्भुतम् 5
॥ ४ ॥ आजन्माष्टपूर्व च, तदिदं दर्शयाम्यहम् । स्निग्धानां स्वस्य बंधूनां, किं दृष्टस्यापरं फलम् ॥५॥ आचकर्ष च स ग्रीवां, स्वजनानयनोत्सुकः । तावच्छेवलजालेन, छिद्रमापूरित लघु ॥ ६॥ बन्धूनाइय निःशेषान् , यावदायाति तत्र सः। तावन्न लभते छिद्रं, यलेनान्वेषयन् मुहुः ॥ ७ ॥ महाप्रमाणके तत्र, यथा छिद्रं सुदुर्लभम् ॥ कच्छपस्य तथा विद्धि, मानुषत्वं पुनर्भवे ॥८॥
अथ युगम् ।। कौतुकी त्रिदशः कश्चिद्, युग-मन्त्यमहोदधेः । पूर्वान्ते न्यक्षिपच्छिद्रात् समिलामपरान्ति(न्त)के ॥१॥ ततः सा वेगतः क्वापि, धावति स्मोत्सरामुखी । अपाच्यामपि च कापि, क्वापि मत्स्येन गिल्यते ॥२॥ तत्र चास्ते बहुं| कालं, निर्गताऽथ ततोऽपि सा । खण्ड्यते तीक्ष्णदंष्ट्रा-मत्स्यप्रभृतिजन्तुभिः॥ ३ ॥ युगमप्येवमेवेह, किंतु कापि द्वयं सह। स्थित्वा क्षणाद् विघटते, सौहार्दमसतोरिव ॥४॥ एवं मुहुर्विघटन, पुनः संघटनं कचित् । कलाभिरिव शीतांशुरनन्तं
53