________________
पिण्डयितुं क्षमाः ॥ १०॥ द्वीपान्तरेषु प्राप्तानि, कालोऽप्यतिबह-र्गतः। कदाचित् तु प्रसादेन, संगम्यन्ते दिवौकसाम् ॥११॥ मनुजत्वा-च्युतोऽपुण्यो मनुजत्वं न चामुयात् । न हि चिन्तामणि-भ्रष्टः, सागरे कापि लभ्यते ।। १२ ॥ ___ अथ स्वप्नः ॥ कार्पटिकेन केनापि, स्त्रमे शीतांशुमण्डलम् । यस्तै तेन तदन्येषां, कथितं सहचारिणाम् ॥१॥ तैरूचे चन्द्रसंकाशं, मण्डक लप्स्यसे वरम् । स तेन लब्धः क्वापि, गृहस्थाऽदनिकोत्सवे ॥ २ ॥ घृतखण्डसमाश्लिष्ट-स्तत्रान्येनापि ताशः । स्वप्नः श्रीमूलदेवेन, प्रैक्षि प्रेक्षावता पुनः॥३॥ तेनाचिन्ति महास्वलो, नैष मण्डकमात्रदः। व्याख्याविशेषतस्त्वेवं, | संपन्नं नूनमीटशम् ॥४॥ तदहं कथयिष्यामि, स्वमपाठकसन्निधौ । स्वप्नं स्वं फलताम्बूल-पूजानिर्माणपूर्वकम् ॥५॥ ततः स्मात्या तथैवासी, कृत्वा सर्वमभाषत । तत्पुरस्तेऽपि तस्याहुः, साम्राज्यं सप्तमे दिने ॥ ६ ॥ तत्रापुत्रो धरित्रीशो,IKI विपन्नः सप्तमे दिने । हस्त्यश्वचामरच्छत्र-कलशानध्यवासयन् ॥ ७॥ इति पञ्चापि दिव्यानि, मन्त्रिप्रभृतयो जनाः ।। दिव्यैरागत्य मुदितै-मूलदेवः कृतो नृपः ॥ ८॥ तं तथा मूलदेवस्य, श्रुत्वा वृत्तान्तमादितः। पूर्वोदितः कार्पटिको--ऽचि. न्तयच्चारुचेतनः ॥ ९॥ अपश्यं यद्यहं भूयः, सुस्वमं तं महाफलम् । तदा व्याख्याप्य तैरेव, ले(ल)भे साम्राज्यमुत्तमम् । ॥ १० ॥ बन्नाम गोकुलान्येष, गोरसप्राप्तिलालसः । तत्पाने में कदाचित् स्यात् , सुन्दरस्वमदर्शनम् ॥ ११॥ न चासौ कथमप्याप, स्वमं तं देवतः पुनः । लभेत सोऽपि तन्नैवं, नरत्वं नरताच्युतः ।। १२ ।।
अथ चक्रं ।। महेन्द्रपुरसंकाश-मस्तीन्द्रपुरमद्भुतम् । राजा तत्रेन्द्रदत्तोऽभूत् , तस्य द्वाविंशतिः सुताः ॥ १॥ इष्टानामतिकान्तानां, देवीनामभवन् वराः। अन्ये वाइरिहैकस्या, महिष्याः सर्व एव ते ॥२॥एका पुनरमात्यस्य, सुता
પત્ર
द