________________
द्वादश- कुलकम् ।।
॥ २२॥
%
तुन्भेहिं मोहवेलावलवलनवसा-वुड्डणुब्बुड्डगाइ, काऊणं चुल्लगाईदसजिणवयणोदिदिलुतसिद्धं। 1 तृतीयं लद्धं सम्मकम्मक्खममुडुवनिभं दुल्लहं माणुसत्तं, संपत्तं खित्तजाइप्पमुहमवि तहेक्कारसंग समग्र
कुलकम् । व्याख्या-'अत्र' मानसप्रत्यक्षे संसारसागरे युष्माभि-नैरवं प्राप्तमिति योगः । कीदृशमित्याह-'अखण्डितदुःखलक्षाणि' एव परिपूर्णवाधाशतसहस्राण्येव वहुत्वात् 'सलिलं जलं यत्र तत्र, विर्भावः प्राकृतत्वात् , तथा 'कुयाहाः' कदभिनिवेशास्ते एव नानाबाधाविधायिस्वात् कुमाहाः कुत्सितजलचरविशेषा-स्तेषां 'माला' श्रेणि-स्तया 'आकुले' व्याप्ते । अत्र च-"विद्वन्मानसहंसबैरिकमलासंकोचदीप्रद्युते !, दुर्गामार्गणनीललोहितसमित्स्वीकारवैश्वानर! सत्यप्रीतिविधानदक्षविजयप्राग्भावभीमप्रभो!, माघास्यं वरवीर! वत्सरशतं वैरंचमुच्चः क्रियाः ॥१॥” इत्यादिवत् परंपरितं नाम रूपकविशेषोऽलकारः । तथा प्रमाणविरुद्धपरद्रव्यादानेच्छा -लोभः, स एव अप्राप्यमानपर्यन्तत्वात् 'अगाधतलं' अत्यन्तनिम्नाधोभागोयत्र तत्र । तथा प्रसिद्धानि जन्ममरणान्येव पुनः पुनरावर्तनात् 'आवर्ती जलभ्रमा यत्र तत्र, तथा 'कुतीर्थानि भौतशाक्यादिकुत्सितदर्शनानि तान्येव महाकष्टसंचारहेतुल्यात् 'कुतीर्थानि कुत्सितजलावतरणमार्गास्तैः, 'उत्कटे उद्भटे, अत्रापि परंपरितरूपकम् । इष्टानिष्टवियोगयोगा एवं यथासंख्यमभिप्रेतासम्बन्धानभिप्रेतसम्बन्धा एवं पुनः पुनरुत्पद्यमानविपद्यमानत्वाद् 'लहयः कलोला-स्ताभिः पहियमाण इतस्ततो विक्षिप्यमाणो 'जंतुचयः' प्राणिगणो यत्र तत्र विक्षेपश्च एकत्र मनसोऽन्यत्र शरीरस्य, जन्तुचयोऽपि एकत्र पुरुषादिरन्यत्र मत्स्यमकरादिरिति, तथा 'क्रोध' एवातिदाहकत्वात् 'उद्दामरो
५५
15॥२२॥