SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 'चिय' शब्दोऽवधारणे, 'ततः तदनन्तरं द्रव्यस्तत्र विशोधितसम्यक्त्रोत्तरकालं, सन्ध्यादिसमये 'वरचरण कारणेषु सर्वविर|तिरूपप्रधानचारित्रहेतुषु तत्पूर्वसेवारूपत्वात् सामायिकादीनां 'सामाइयमाइकिरियासु त्ति' मकारोऽलाक्षणिकः, ततः सामायिकादिक्रियासु तत्र सामायिकं तावद् गीतार्थोपदर्शितमुखवस्त्रिकाप्रत्युपेक्षणनमस्कार--सामायिकसूत्रोच्चारणेर्यापथिकप्रतिक्रमण-स्वाध्याय-काष्ठासनादिसंदेशनपूर्वक मनुष्ठानं तदादयस्तासु, आदिशब्दात् पौषधादिग्रहः अस्यापि सामायिकवद् ग्रहणं, 'सदा' सर्वकालं, 'सम्यकू' सास्तातिचारपरिहारेण 'प्रवर्त्तनीयं प्रवृत्तिः कार्या एता हि सम्यगभ्यस्यमानाश्चारित्रानुरागहेतवो भवन्ति इति कर्त्तव्या इति गाथार्थः ॥ १८ ॥ किमित्येतेषु सामायिकादिषु यतितव्यमित्यत आह एतेर्हितो विजओ, निगमणुम्मणाण भवाणं । अक्खेवकरणदक्खं, विज्जइ अन्नं न गुणठाणं ॥ १९ ॥ व्याख्या- 'एतेभ्योऽपि' भावस्तवरूपेभ्यः सामायिकादिभ्योऽपि 'यतः' कारणात्, 'निर्वृतिगमनोन्मनसा' निर्वाणयानोत्कण्ठितानां 'भव्यानां भविष्यत्कल्याणानाम् 'अक्षेपकरणदक्षं' अविलम्बितविधानपटु सामर्थ्यात् मोक्षस्य । 'न विद्यते' न संभवति, 'अन्यत्' अपरं 'गुणस्थानं' गुणोपार्जनाश्रयः । अयमभिप्रायः- ज्ञानदर्शनयोः सतोरपि न तावत् मोक्षो यावत् सर्वसंवररूपशैलेश्यवस्थाया अप्राप्तिः, सा च सर्वविरतिरूपसामायिक एवेति अक्षेपमोक्षसाधनता सामायिकस्येति गाधार्थः ॥ १९ ॥ 41
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy