________________
द्वादशसरकार। ॥ १९ ॥
पदेशकगीतार्थ सुविहितायत्तत्वेनैव वा, वाशब्दः पचान्तरसंसूचकः, 'सम्यम्' यथावस्थितत्वेन 'कथमपि' केनापि बुद्धिमा'नाता' नावगता 'बहुशो' अनेकशः, प्रतिपृच्छादिना 'चिन्त्यमाना अपि पुनः पुनरवमृश्यमाना अपि, आस्तामचिन्त्यमाना इत्यपेरर्थः ॥ १३ ॥ यदा च सिद्धान्ततद्देशकगीतार्थसम्यगनुचिन्तनादिभिः सर्वैरपि प्रकारैः प्रव तितैर्न सम्यगवगता भावाः केचित् पूर्वोक्तास्ते किमित्याह - 'ते' भावाः 'स्वमत्या' आगमादिनिरपेक्षबुद्ध्या 'विकल्पनं' तत्तदसदर्थयोजनं, 'तत्पराः' तन्निष्ठा' ये सांप्रतिकपुरुषास्तेषां 'वश' आयत्तता तेन तदुपदेशेनेत्यर्थः । किं निश्चयम् 'उपयान्ति' निर्णीयन्ते, किमिति काक्वा नैवेत्यर्थः । अत्रानुरूपमुदाहरणमाह-'न हि' नैव 'सूरानुद्योतितम्' आदित्याऽप्रकाशितं, 'नभ' आकाशम् ' उद्योतयन्ति' प्रकाशयन्ति 'खद्योता' अल्पद्योतवन्तः कीटविशेषाः, अयमभिप्रायो- ये सूर्यतुल्यैर्विश्रुत श्रुतधरादिभिः पूर्व न सम्यगवगमिताः पदार्थास्ते सांप्रतिकैः खद्योतकल्पैर्नावगमयितुं शक्यन्ते । इति गाथार्थः ॥ १४ ॥
एवं च स्थिते यादृशैर्भवद्भिर्यत् कुर्वाणैर्य विधेयं तद् गाथात्रयेणाह - इय सच्छंद परूवण - करस्स कुग्गहपरस्स य जणस्स । संसगिंग दावरिंग, व वज्जयंतेहिँ कुसलेहिं ॥ १५ ॥ कालबलोचियकिरिया - रईसु असढेसु अप्पमाईसु । सुगुरूसु पज्जुवासण- परेहिँ तक्कहियकारीहिं ॥ १६ ॥ 38
द्वितीय
कुलकम् ।
२
॥ १९ ॥