SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ तओ सुहकामी, निग्गइमित्ता विणस्संति॥१॥ एवं गच्छसमुद्दि, सारणवाइहि पणुलिया संता। निति तओ सुहकामी, मीणा व जहा विणस्संति ॥२॥” एवं चरणपरिणामाभावे दुष्करक्रियाकारित्वमपि लौकिकमुनिकष्टक्रियावद् अल्पफलमेवेति । एवं मध्यस्थभावेन विचारणीयः, 'चः' समुच्चये। न केवलं विचारणीयोऽपि तु तदनुसारेण प्रवर्त्तनीयमपि, इत्यत आह-'तत्परतन्त्रत्वेन' सिद्धान्ताज्ञायत्तत्वेनैव, एवकारो अवधारणे, 'यतितव्यं' क्रियायां यत्नः कार्यः, सर्वकार्येषु समस्तद्रव्यस्तवभावस्तवानुगतप्रयोजनेषु । इति गाथार्थः ॥ १२॥ किमित्येवं सर्वज्ञाद्यभावे आगमस्यैव सर्वप्रकारेण आश्रयणीयता प्रतिष्ठिता, यावता संप्रत्यपि अतिपाण्डित्यात् केचित् तत्त्वं विमृश्य प्रकाशयिष्यन्ति किं सिद्धान्तेन ? इत्यत आह जे भावा तत्तो वि हु, तदेसगगीयसाहुवसओ वा। सम्म कहवि न नाया, बहुसो चिंतिजमाणा वि ॥ १३ ॥ ते किं समइवियप्पण-परपुरिसवसेण निच्छयमुर्विति । न हि सूराणुज्जोइय-नहमुजोविंति खज्जोया ॥ १४ ॥ व्याख्या-ये केचिद् 'भावाः' पदार्थाः, श्रावकप्रतिक्रमणनिषेधजिनप्रतिमाप्रतिष्ठाधिकारिसूरिप्रतिषेधप्रभृतयः, 'ततोऽपि' आगमादपि, आस्तां सर्वज्ञादेः, तदभावे आगमादेरपि इत्यपेरर्थः। 'हु' पूरणे, 'तद्देशकगीवसाधुवशतो वा' सम्यगागमो 37 याँ००४
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy