SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ व्याख्या - यद्यपि निपुणानामपि उत्पद्यन्ते कुग्रहाः, तथापि एतत् चिन्तनीयमिति योगः । 'यद्यपि ' इति अभ्युपगमे, 'हु:' पूरणे, 'बहुविधमतभेदश्रवणात्' जिनमतेऽपि नाना प्रकार स्वविकल्पशिल्पिनिर्मितदर्शनविशेषाकर्णनात् । तथाहि केचिदाहुः पाक्षिकादिप्रतिक्रमणं पौर्णमास्यामेव कर्त्तव्यम् अपरे तु श्राद्धानां प्रतिक्रमणमेत्र निषेधन्ति, द्वादशावर्त्तवन्दनकं तु वस्त्रासलेनंच कत्तव्यामेत्याहुः, जिनप्रतिमादिप्रतिष्ठां तु सूरीणां कत्तव्यतया उभयेऽपि न मन्यन्ते । केचित् पुनर्नमस्काराद्युपधानतपः श्राद्धानामकर्त्तव्यमेव इत्याहुः । अपरे तु अत्यन्तधर्मश्रद्धालुतया शुद्धभैक्षादिग्रहो गच्छवासे न निर्वह तीति तत्परित्यागमेव अभ्युपजग्मुः । इत्यादिश्रवणात् तावत् तत्रैव मनसो व्यवस्थितौ कुग्रहसंभवः । ननु सिद्धान्तात् तनिश्चयो भविष्यतीत्याह-'समयानिपुणत्वात्' सिद्धान्तार्थविषयकौशलाभावात्, सत्यपि वा कथंचित् तत्कौशले 'उत्सगपवाद विवेकविरहात्' तत्र हि किंचिदकृत्यमपि आधाकर्मादिकं कदाचिद् विधेयतयोपदिष्टमिति न सम्यगकर्त्तव्यमिति ज्ञायते । तथा-' तथा ' मार्गानुसारिणी 'बुद्धिः' मतिर्यस्य स तथाबुद्धिः, न तथा इत्यतथावुद्धिस्तद्भावोऽतथाबुद्धित्वं, तस्मात् । स्वत्वं प्राकृतस्वात् । तथा विशिष्टबुद्धयभावादपि कुमहभावः । इति गाथार्थः ॥ ६ ॥ ननु सद्गुरुसम्पर्कात्तदभावो भविष्यतीत्यत आह- 'समयार्थप्रदीपोपमः ' सिद्धान्ताभिधेयस्य प्रकाशकत्वेन प्रदीपकल्पः, स घासी 'शुभगुरुश्च' गीतार्याचार्यश्व, तेन 'संसर्गः ' संपर्कस्तस्य 'लाभः' प्राप्तिस्तस्यापि ('विगमात् ') अभावात् । तथापि अप्रमत्तसुविद्दितक्रियाबलोकनेन समीचीनमार्गनिश्वयात् तदभावो भविष्यतीत्यत आह- सिद्धान्तविरोधिनी' श्रुतविरुद्धा या काचित् प्रमत्तसत्त्वानां विषयकपायाद्युपे प्राणिनां दीक्षाग्रहणेऽपि 'स्थितिः' वृत्तिः, खीसंसर्गाशुद्ध भोजन कलहादिरूपा 'तदर्शनादपि' तदवलोकनात्, 'च' समु 31
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy