________________
व्याख्या - यद्यपि निपुणानामपि उत्पद्यन्ते कुग्रहाः, तथापि एतत् चिन्तनीयमिति योगः । 'यद्यपि ' इति अभ्युपगमे, 'हु:' पूरणे, 'बहुविधमतभेदश्रवणात्' जिनमतेऽपि नाना प्रकार स्वविकल्पशिल्पिनिर्मितदर्शनविशेषाकर्णनात् । तथाहि केचिदाहुः पाक्षिकादिप्रतिक्रमणं पौर्णमास्यामेव कर्त्तव्यम् अपरे तु श्राद्धानां प्रतिक्रमणमेत्र निषेधन्ति, द्वादशावर्त्तवन्दनकं तु वस्त्रासलेनंच कत्तव्यामेत्याहुः, जिनप्रतिमादिप्रतिष्ठां तु सूरीणां कत्तव्यतया उभयेऽपि न मन्यन्ते । केचित् पुनर्नमस्काराद्युपधानतपः श्राद्धानामकर्त्तव्यमेव इत्याहुः । अपरे तु अत्यन्तधर्मश्रद्धालुतया शुद्धभैक्षादिग्रहो गच्छवासे न निर्वह तीति तत्परित्यागमेव अभ्युपजग्मुः । इत्यादिश्रवणात् तावत् तत्रैव मनसो व्यवस्थितौ कुग्रहसंभवः । ननु सिद्धान्तात् तनिश्चयो भविष्यतीत्याह-'समयानिपुणत्वात्' सिद्धान्तार्थविषयकौशलाभावात्, सत्यपि वा कथंचित् तत्कौशले 'उत्सगपवाद विवेकविरहात्' तत्र हि किंचिदकृत्यमपि आधाकर्मादिकं कदाचिद् विधेयतयोपदिष्टमिति न सम्यगकर्त्तव्यमिति ज्ञायते । तथा-' तथा ' मार्गानुसारिणी 'बुद्धिः' मतिर्यस्य स तथाबुद्धिः, न तथा इत्यतथावुद्धिस्तद्भावोऽतथाबुद्धित्वं, तस्मात् । स्वत्वं प्राकृतस्वात् । तथा विशिष्टबुद्धयभावादपि कुमहभावः । इति गाथार्थः ॥ ६ ॥ ननु सद्गुरुसम्पर्कात्तदभावो भविष्यतीत्यत आह- 'समयार्थप्रदीपोपमः ' सिद्धान्ताभिधेयस्य प्रकाशकत्वेन प्रदीपकल्पः, स घासी 'शुभगुरुश्च' गीतार्याचार्यश्व, तेन 'संसर्गः ' संपर्कस्तस्य 'लाभः' प्राप्तिस्तस्यापि ('विगमात् ') अभावात् । तथापि अप्रमत्तसुविद्दितक्रियाबलोकनेन समीचीनमार्गनिश्वयात् तदभावो भविष्यतीत्यत आह- सिद्धान्तविरोधिनी' श्रुतविरुद्धा या काचित् प्रमत्तसत्त्वानां विषयकपायाद्युपे प्राणिनां दीक्षाग्रहणेऽपि 'स्थितिः' वृत्तिः, खीसंसर्गाशुद्ध भोजन कलहादिरूपा 'तदर्शनादपि' तदवलोकनात्, 'च' समु
31