________________
व्याख्या - सिद्धान्ततत्त्वं निपुणा भाववितव्यमिति योगः । तत्र 'भावयितव्यं' मनम ऐकाय्येणानुचिन्तनीयं, द्धान्ततत्त्वं श्रुतरहस्यमुत्सर्गापवादादिविषयत्वेन व्यवस्थापनीयमित्यर्थः, न पुनः श्रूयमाणाक्षरमात्र विषयत्वेन । यथा दशसि. वैकालिके - "मुत्तस्स मग्गेण चरिज भिक्खु" । तत्रापि नौघत एव यथाश्रुतग्राही स्यात् अपि तु "सुत्तस्स अत्थो जह आणवेड" सूत्रस्यार्थः पूर्वापराऽविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भा यथाऽऽज्ञापयति नियुक्ते तथा वर्त्तेत नान्यथा । यथेद अपवादतो नित्यवासेऽपि देरियासादि बाबूनां संस्तार कगोचरादिपरिवर्तनेन, अन्यथा शुद्धापवादायोगाद् इत्येवं प्रतिक्रमणवन्दनादिष्वपि तदर्थ प्रत्युपेक्षणेनानुष्ठानेन वर्त्तत, न तु तथाविधलोकहेर्या तद् परित्यजेत्, आघातनाप्रसङ्गादिति । तथा चोपदेशमालायाम् - "जणस्स धम्मं परिकछेइ" त्ति । एतत्पच्छाकडविषयम् । यथा वा "मग्गविभेओ विभीसियाओ य" इति, जिनकल्पिकविषयं कीदृशं तदित्याह 'भव्यं' श्रेयोभूतं, 'निर्वाणसुखैककारणं' मोक्षानन्दाद्वितीयहेतुम् । किंचित् कस्यचित् कारणमपि स्याद् जलवृष्टिरिव सस्यस्य, कदाचिद् व्यभिचरेद् इत्यत आह-'अबन्ध्यं ' सफलमव्यभिचारीत्यर्थः, न हि सिद्धान्ततत्त्वावगमे तथैव सम्यक् प्रवृत्ती कदाचिन्न निर्वाणं भवति । कुग्रहात् तदवगमोऽपि न श्रेयान् इत्याह- 'उज्झित्या' परित्यज्य 'कुग्रहम्' असदभिनिवेशं विपर्य्यये हि न तत्त्वावगम इति । 'निपुणबुद्ध्या' मार्गानुसारिण्या मत्या । इति गाथार्थः ॥ ४ ॥
किमिति कुग्रहस्य परिहारोऽभिहित इति तद्दोषमाहजम्हा वो वि हु हो-इ कुग्गहो सयलकुसलपच्चूहो । तालउडविसलवो इव, महंतसंमोहहेऊ य ॥५॥
2.9