________________
कार्यम् । पौलस्त्यवत्पस्त्यमसौ ध्रुवं स्यादकीर्त्यसुध्वंसकुलक्षयाणाम्” ॥ १॥ चः समुच्चये । इति वृत्तार्थः ॥ १७ ॥
स्वकार्यकृताकृतत्वपर्यालोचनमपि गुण इत्येषोऽपि देहे निवेशनीय इत्याह__ कयं मए किं करणिजजायं, किं नो कयं किं व कयं न सम्म ।
किं वा पमत्तो न सरामि इण्हि, इच्चाइ किञ्चाणविभावणं च ॥१८॥ व्याख्या-'कृत विहितं 'मया' इत्यात्मनिर्देशः, किमिति आत्मगताऽज्ञातपर्वालोचने, 'करणीयजातं', पूजासामायिकादिकृत्यवृन्द, किंवा तदेव पूजादिकं कृत्यमपि समथेनापि 'नो' नैव कृतं, "किंव' इति विकल्पे, ह्रस्वत्वं प्राकृतत्वात् , 'सम्यग्' यथावश्न कृतं दुष्पत्युपेक्षितत्वादिवत् कथंचिद् विधिविरहितत्वात् , "किंवा प्रभत्तो' निद्रालस्याद्युपहतो 'न स्मरामि' नाऽनुचिन्तयामि, 'इदानीं संप्रति कृत्यमिति योगः। 'इत्यादि' एवंप्रभृतीनां 'कार्याणां' धर्मसम्बद्धानां 'विभावन' पालोचन, इत्यादि एवंप्रकारमिति विभावनाविशेषणं वा, 'च' समुच्चये । एवंविधपालोचतं हि भावानुस्मरणं प्रभातसमयेऽपि कृत्यतयोपदिष्टम् । इति वृत्ताष्टकार्थः ॥ १८ ॥ । तदेवं सामान्येन स्वात्मनि गुणविनिवेशमभिधाय अधुना तथाविधगुणवत्पुरुषदृष्टान्तेन तदनुसारेण प्रवर्तितव्यमित्याह--
गंभीरधीराण गुणायराणं, सणंकुमाराइमहामुणीणं । आणंदमाईण य.सावयाणं, सयाणुसारेण पयट्टणं च ॥ १९ ॥