________________
द्वादश
कुलकम् ।
॥ ११ ॥
मृततृप्तानां यत् सुखं शान्तचेतसाम् । कुनस्तद् धनलुब्धाना-मितश्चेतश्च धावताम्" ॥१॥ तथा 'अलजावत्त्वम्' हीविकलत्वं, मुखकोशकरणप्रच्छादिकादिपरिहारादी, कासु इत्याह- 'विशिष्टचेष्टासु मुक्तिनिबन्धनपूजासामायिकादिषु क्रियमाणासु, लज्जावत्वे हि सम्यग् यथोक्तक्रियाया असिद्धेः फलाभावः स्यात् । तदुक्तम्- “चैत्यार्चनादौ मुखकोशबन्धन - त्यागोंऽशुकस्यापि चन्दनादौ । वीरस्य मंत्र महाजो वीडाबहो यस्य न तस्य सिद्धिः " ॥ १॥ तथा 'विनीतता' गुर्वादीनामभ्युत्थानोपदेशकारित्वलक्षणा, अविनीततायां हि इहलोकेऽपि फलासाधकत्वात् । तदुक्तम् - " प्राहुर्दाहकमेव पात्रकमित्र प्रायोऽविनीतं जनं प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं कचित् । तस्मादीहितदानकल्प विटपिन्युल्लासिनिःश्रेयस - श्रीसम्बन्ध विधानधानि विनये यत्नं विदध्याद् बुधः " ॥ १ ॥ 'चः' समुच्चये, तथा 'प्रियंवदत्वं' श्रोत्रसुखदमधुरभाषित्वं तस्य केवलस्यापि समस्तदोपापसारकत्वात् । तदुक्तम्- "साक्षात् तावदयं विजातिरपरं काकैश्च संवर्धितो, रागश्चक्षुपि दृष्ट एवं वपुषः किं कालिमा कथ्यते । एतावत्यपि पश्य कस्य न मनः पुष्णाति पुंस्कोकिलः, प्रायेण प्रियवादिता भगवती दोषानपि प्रोज्छति" ॥१॥ तथा 'नयो' न्यायो देशकुलाद्यविरुद्ध आचार-स्तत् 'सुन्दरत्वं' तन्मनोज्ञत्वं, न्यायविकलस्य हि सर्वोद्वेजकत्वेन असहायतापत्तेः । तदुक्तम्- "यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं च गच्छन्तं, सोदरोऽपि विमुञ्चति" ॥ १॥ तथा 'आगामिकालस्य प्रारब्धकार्योत्तरविपाकसमयस्य, 'प्रलोकनं' बुद्धिचक्षुषा निरीक्षणं, न चास्य पूर्वोक्तादनौत्सुक्यादविशेषः, तस्य क्रियमाणप्रस्तुतकार्यमात्रसाधकत्वात्, अस्य तु कार्यनिष्पत्ती अनन्तरं विपद्भावाभावहेतुत्वात् । यस्तु आगामिकाले न निरीक्षते तस्यानेकानर्थसंभारभावः । तदुक्तम् - " आगामिनं कालमनाकलय्य, प्रारभ्यते येन गुरुस्व
22
प्रथम
कुलकम् ।
१
॥ ११ ॥