________________
द्वादश
कुलकम् ।
22 2 11
तथा
कामपिवासासमुत्थदोस - दुरंतयालोयणलालसतं । पसायवायाहयजीवलोय - जायंत दुक्खोहविभावणं च ॥ १६ ॥
व्याख्या- 'कामपिपासा' भोगतृष्णा, मा आदियेषां ते कामपिपासादयः, आदिशब्दाद मांसमद्यादि भोगतृष्णाग्रहः, 'तत्समुत्थाः' तदुत्पन्ना ये 'दोषाः' तत्तदशुभप्रवृत्त्यादीनि दूषणानि तेषां 'दुरन्तता' चक्रवाकगजपारदारिकादीनां शोका|तिरेकबन्धनमारणपर्यवसानता, तस्या 'आलोचनं' मनसि विमर्शनम् आलोकनं वा साक्षादेव दर्शनं, तत्र 'लालसवं' लम्पट | तदेकतानत्वमित्यर्थः । तथाहि "तीरात तीरमुपैति रौति करुणं चिन्तां समालम्वते, किश्चिद् ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः । स्वां छायामवलोक्य कूजति पुनः कान्तेति मुग्धः खगो, धन्यास्ते भुवि ये निवृत्तमदना धिन् दुःखिताः कामिनः ॥ १ ॥ तथा - "रेवाजलं किसलयानि च शलकीनां विन्ध्योपकण्ठगहनं स्वकुलं च हित्वा । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः स्त्रहो हि कारणमनर्थपरंपरायाः " ॥ १ ॥ तथा-"आत्मायुर्नरके धनं नरपतौ प्राणास्तुलायां कुले, वाच्यत्वे हृदि दीनता त्रिभुवने तेनायशः स्थापितम् । येनेदं बहुदुःखदायि सुहृदां हास्यं खलानां कृतं शोच्यं साधुजनस्य निन्दितपरस्त्रीसङ्ग सेवासुखम् " ॥ १ ॥ एतत्परिभावने हि प्रायः शुभभाववृद्धे, अत एव कामतृष्णां सन्तस्त्यजन्ति इति । उक्तं च"चभकामान्धजनेषु साक्षाद्, दुरन्ततां कामतृपः समीक्ष्य । लोकेऽत्र चामुत्र च दीर्घकालां, कथं सकण्णी न विकर्णयेत् |
20
प्रथमकुलकम् ।
१
॥ १०