________________
संभवेत्, स्नेहस्तेषु स तत्वतो गुणिगुणैकात्म्याद गुणेष्वेव यत् । तस्मात् सर्वगसद्गुणानुमननं तस्माच्च सद्दर्शनाद्, यस्मात् सर्वशुभं गुणिव्यतिकरः कार्यः सदायैस्ततः " ॥ १ ॥ तथा 'संसारकृत्येषु' भवोद्भवहेतुषु स्वजनसम्वन्धराज्यविवाहादिषु, 'परा' प्रकृष्टा 'विरक्तिः' परम्परया अनन्तदुःखदायित्वेन तेषु तत्कारिषु च वैराग्यभावना, सम्यग्द्दष्टस्तथास्वभावत्वात् । तदुक्तम्- "बन्धूदयोद्वाहसुतोत्सवादी, संसारकृत्ये प्रतिबन्धभाजः । आजन्म यस्य स्वहिते न वृत्तिः, स्वयं स्वघातोद्यतमेव धिक् तम् ॥ १ ॥” इति वृत्तार्थः ॥ १३ ॥
तथा-
सत्रे कजे अणूसुगत्तं, अखुभावो य अणिद्दयत्तं । सज्झायसज्झाणतोवहाणं- आवस्सयाईसु समुज्जमित्तं ॥ १४ ॥
व्याख्या- 'उत्सुकः' तरलतरतया अविमृश्यकारी, ततश्च 'सर्वेषु' समस्तेषु संसारधर्मप्रतिबद्धेषु 'कार्येषु' प्रयोजनेषु 'अनुरसुकत्वं विमृश्यकारित्वम्, अतादृशस्य तु कदाचिन्महाविपत्संभवेन कार्यस्य स्वात्मनश्च विधातभावात् । तदुक्तम्- “प्रायः समुत्सुकमतिर्न विवेचकः स्यात् तादृकस्वभावविभवश्च न कार्यजातम् । सम्यक् पतङ्गखगवत् स्वहितं करोति, स्वल्पं सुसाधमपि मन्दतया सुबुद्धेः " ॥ १ ॥ तथा 'अक्षुद्रभावश्चेति' परविप्रियकारित्वबुद्धिः क्षुद्र भावस्तन्निषेधोऽक्षुद्रभावः, सर्वदा सर्वेषु प्रियकारित्वम्, 'चः' समुच्चये, अतादृशस्य सर्वाविवास्यत्वेन स्वार्थासाधकत्वात्, तदुक्तम्- “वन्धुष्वपि प्रतविप्रि
17