________________
द्वादशकुलकम् ।
प्रथमकुलकम् ।
व्याख्यान विद्यते 'हासो' हसनं यत्र तदहासं, कियाविशेषणमेतत् , ततोऽहासं 'भाषितुं' यदितुं शीलमस्येति अहास- सभापी, तस्य भावस्तत्वं, हासान्निवृत्यैव भाषणीयं, सहासभामा लोकेऽपि मूर्ससाभित्रयाकलाद, सद्भाषणनिषेधस्य च मूर्खतानिवृत्तिहेतुत्वेन श्रवणात् । तदुक्तम्-"खादन् न गच्छामि हसन् न भाषे, दत्तं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् , अस्माइशा नैव भवन्ति मूर्खाः" ॥१॥ तथा 'अदीना' दुःखातिशयाभिव्यञ्जकबदनविच्छायतादिपरिहाररूपा 'वृत्तिः' व्यापारः, तस्या अपि सत्पुरुषताभिव्यञ्जकत्वात् । तदुक्तम्-"यदि भवति कथंचिद् द्रव्यसंघातनाशः, प्रियजनविरहो वा कालराजादिदौःस्थ्यम् । विदितविधिनियोगालंघनीयस्वभावास्तदपि हि न महान्तो दीनभावं त्रजन्ति"॥१॥ तथा 'उत्तानो' विद्यमानाविद्यमानगुणोत्कर्षरूपाभिमानवान् , न तादृशोऽनुत्तानस्तद्भावस्तत्त्वं, हस्वत्वं प्राकृतत्वात् । उचानत्वस्य चारमोत्कर्षाद वचनाभावकृतो भेदो द्रष्टव्यः, तादृशो हि गुवादिभ्यो विद्यादिलाभवान् स्यात्, न तविपरीतः। तदुक्तम्-"नैवोत्तानमतिर्विद्या, विन्देत सुगुरोरपि । यतोऽस्या विनयो मूलं, स चोत्तानाद् विदूरगः ॥२॥ तथा 'श्रुते' सदागमरूप एव तदध्ययनश्रवणादिना 'शीलं' समाधानं यस्य स तथा, तद्भावः श्रुतशीलत्वम् , तादृशो हि “पढमं नाणं तओ दया" इत्यादिन्यायेन मोक्षतरुबीजभूतकारुण्यादिविधानभावेन ऐहिकपारत्रिकसमस्तसंपत्सिद्धेः, अतादृशस्य पुनरुभयाभावतस्तदभावात् । तदुकम्-"नाश्रुतश्रुततत्त्वस्य, स्याद् दया सिद्धिसिद्धिदाते तु तामिहामुत्र, न यशःशर्मसंपदी"। ॥१॥ तथा 'गुणाधिकेयु' सातिशयज्ञानादिवत्सु, अनुस्वारः प्राकृतत्वात् , 'परमः' प्रकृष्टः 'प्रमोदः' तद्गुणानुमननरूप आनन्दः, तेन हि एकदापि क्रियमाणेन सर्वसद्गुणानुमननेन महाफलसिद्धेतदुक्तम्-"ज्ञानादित्रयवान् जनो गुणिजनस्तरसङ्गमात् ।
16