________________
व्याख्या-'प्रकृष्टो धर्मः' केवलतीर्थकृदाज्ञासमाराधनपरः शुभव्यापारस्तत्र 'प्रतिबद्धाः सातिशयानुरागा ये 'लोका' जनास्तेषु गुणानुरागेण 'सुबन्धुवुद्धिः पित्रादिसम्बन्धमन्तरेणापि "सहधम्मयरा मह बंधवत्ति" वचनात् , शोभनबान्धवबुद्धिः, ये तु नवविधास्ते परमार्थतः पशव एवेति । उक्तं च-"शिवैकहेतुसद्धर्म-निष्ठचित्तेषु धर्मिषु । येषां न बन्धुबुद्धिस्ते, पशवः शृङ्गवर्जिताः"॥१॥ तथा 'विमलो' विषयकपायाद्यदूपितत्वेन निर्मल 'आशयः' चित्तं येषां ते तथा, तद्भावो विमलाश
यत्वम्, एतदभावेऽपि सर्वमनुष्ठानं निष्फलमेव । यदाहुः-"येषां न मानसं शुद्धं, ते दानाद्युद्यता अपि । फलभाजः सदा न है स्युनिर्बीजा इव कर्षकाः ॥१॥" तथा 'सदापि' सर्वकालमपि 'आत्मन उत्कर्षो' रूपादिभिर्गुणैरहमुत्कृष्ट इत्यभिमानबद्वचनविशेगा, तम्य 'त्याग' पनिहारा गोलों शिलाघवायैव । यतः "परेण परिविख्यातो, निर्गुणोऽपि गुणी भवेत् । शकोsपि लघुतां याति, स्वयं प्रख्यापितैगुणः" ॥१॥ किं च तदभावेऽपि गुणिनां गुणविस्तारात्। तदुक्तम्-"आत्मोत्कर्ष विनापि स्या, गुणतो गौरवं जने नहि भास्वान् निजा भासः, कदाचिदपि शंसति" ॥क्षा तथा 'अयुक्तस्य' देशकालवयाप्रभृत्यनुचितस्य 'नेपथ्यस्य वेषस्य अनिच्छनम्'-अनिष्टिरकरणमिति यावत् : अयुक्तस्य तस्यापि लाघवहेतुत्वात् । तदुक्तम् “देशकालदशादीनामनौचित्येन वेषकृत् । अस्तु तावद् दरिद्रादिः, सार्वभौमोऽपि हस्यते" ॥२॥ चः समुच्चये । इति वृत्तार्थः ॥ १२॥
तथा
R
INI
अहासभासित्तमदीणवित्ती, अणुत्तणतं सुयसीलया य ।। गुणाहिपसु परमो पमोओ, संसारकिच्चेसु परा विरची ॥ १३ ॥
KIvates:
HTRA
गत
NEE