________________
द्वादशकुलकम् ।
॥ ७ ॥
भणिया । गच्छंताणुवयणा, एसो सुस्मृसणाविणओ ॥ २ ॥ सत्कारी वन्दनादिः, अभ्युत्थानं गौरव्यदर्शने विष्टरत्यागः सम्मानो वखादिपूजनम्, आसनाभिग्रहः पुनस्तिष्ठत एवासनानयनपूर्वकमुपविशतात्र इति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानान्तर संचारणम्, शेषभेदाः प्रसिद्धाः । तथा चाह-'गुरुषु' सम्यग्ज्ञान क्रियावत्सु आचार्यादिषु 'शुश्रूषालाम्पढ्यं शुश्रूषाला सत्वं तदेकपरत्वमित्यर्थः यतोऽयश्यमेतस्य सफलत्वमेव । तदुक्तम्- "सद्गुरूणामुपास्तिर्या, निदानं ज्ञानसंपदः । स | भवेद् भवपाथोचेस्तारणी तरणिर्यथा ॥१॥ एवमग्रेतनपदेषु अपि पूर्वापर्योपन्यासे कारणं सुधिया स्वयमेवाभ्यूह्यम् । तथा 'परेपाम्' आत्मव्यतिरिक्तानामुपकारोऽनुग्रहो धनजीवितादिरक्षणलक्षणस्तत्र 'ग्रवणः ' प्रगुणो दक्ष आशयश्चित्तं यस्य स तथा; तस्य भावस्तथात्वम् । यस्य चैतदविकलं स एव पुण्यभाकू, शेपस्तु आत्मंभरिवलिपुष्टकावाह्येव । तदुक्तम्- "अगण्य पुण्यकारुण्यामृतनिर्भरमानसाः । धन्या एवोपकुर्वन्ति, परान् दुःखशतार्दितान्" ॥१॥ तथा 'विशेषेण मूढाः' शास्त्रपल्लवमात्रग्राहित्वेन दुर्विदग्धा लोकादिविरुद्धाचारचारिणस्तैः सह 'संसर्गः ' परिचयस्तस्य समस्तानर्थमूलत्वेन विशेषेण' सर्वात्मना 'वर्जनं' परिहारः, चः समुच्चये, तत्परिहारे च सर्वसमृद्धिसिद्धिरित्यर्थादुक्तं भवति । तदुक्तम्- “ “दुष्टान्तः करणैर्भीमैः, परच्छिद्राभिवीक्षकैः । भुजङ्गेरिव संसर्गो, विमूढैर्न सुखावहः" ॥ १ ॥ इति वृत्तार्थः ॥ ११ ॥
तथा -
परिधम्मप्पडिबद्धलोय - सुबंधुबुद्धी विमलासयत्तं । सयावि अनुकरिसस्स चागो, अजुत्तनेवत्थअणिच्छणं च ॥ १२ ॥
14
1
प्रथम
कुलकम् । १