SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विनयादीनां च वाह्यानां सर्वेषां संग्रहकृतो भवतीति । किञ्च " यद्वद् मुक्ताकलापे प्रभुरसमगदोच्छेदसंपद्विधानाद्यर्थेष्वेकोऽप्यचिन्त्यातिशय इह मणिः कोऽपि कस्याप्यहो स्यात् । तद्वत् संपूर्णकार्यक्षम इह हि गुणेष्वेककोऽप्येषु सद्यः, सर्वेऽप्येकत्र दैवात् स्युरिह सुघटिताः कस्य नार्थस्य सिद्धौ” ॥१॥ तेन श्राद्धानां स्वदेहे सर्वगुणनिवेशोपदेशः । इति वृत्तार्थः ॥१०॥ वृत्ताष्टकेन गुणानेधोपदर्शयन्नाह - अपुत्रपुव्वा गमनाणच्छा, गुरूसु सुस्सूसणलं पडतं । परोवयारपवणासयत्तं विमूढसंसग्गिविवज्जणं च ॥ ११ ॥ व्याख्या- 'अपूर्वा पूर्वागमज्ञाने' प्रतिदिनं सिद्धान्तप्रकरणसूत्र तदर्थावगमे 'वाञ्छा' अभिलाषः, लौकिकैरपि सम्यक्त्वनतार्थिभिः "श्लोकार्थं श्लोकपादं वा समस्त श्लोकमेव वा। नवं नवं पठेन्नित्यं, यदीच्छेद् विपुलां मतिम् ॥ १॥ इत्यादि वदद्भिरयमर्थः स्वीकृत एव किं पुनर्लोकोत्तरैः केवलागमज्ञानपरतन्त्रप्रवृत्तिभिः । यतस्तीर्थकृन्नामकर्मोपार्जन निमित्तविंशतिस्थानमध्येऽपि अस्याः 'अपुवनाणगहण' इत्यादिना श्रवणात् । यदुक्तम्- "अकुण्ठकण्ठैः सोत्कण्ठैः, यः पाठः क्रियते नवः । प्रत्यहं स श्रुतस्य स्याज्जिनत्वस्यापि मूलभूः " ॥ १ ॥ समस्त सम्यक्रियाकलापस्य एतत्पूर्वकत्वाद आदौ अस्योपन्यासः, तस्यापि गुरुशुश्रूषा साध्यत्वात् तदनन्तरं गुरुशुश्रूषायाः सा च सत्कारादिभेदेन दशधा । तथा चोक्तम्- "सकारभुड्डाणे, सम्माणासणअभिग्गहे तह य । आसणमप्पयाणं, किकम्मं अंजलिग्गहो च ॥ १ ॥ इतरसणुगच्छणया, टियस्स तह पञ्चुवासणा 13 P
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy