________________
आदर्शकुलकम् ।
।। ६ ।।
तथा 'सदा' सर्वकालं प्रमत्ता निद्रालस्यादिप्रमादपराः, 'न' नैव, 'समुद्यच्छन्ति' सम्यगुद्यमं कुर्वन्ति तथा चैवंविधस्वभावभाजां प्राणिनां शङ्काव्युदासोपदेशः सार्थक एवेत्यर्थः ॥ ९ ॥
तदेवं स्थिते लोकानां स्वभावे श्राद्धैस्तत्त्वावलोकनपरैर्यद् विधेयं तदुपदर्शयन्नाह-
ता लोसन्नाविपरंमुहेहिं समुज्झियासेसकदग्गहेहिं ।
इमे गुणा लोगदुगे वि रम्मा, सयंमि देहम्मि निवेसियव्वा ॥ १० ॥
व्याख्या - यतो लोकाः संसारकार्येषु धर्मकार्येषु चैर्यस्वभावास्तत् तस्मात् कारणात् 'लोकसंज्ञा विपराङ्मुखैः' इमे गुणाः स्वात्मनि निवेशनीया इति सम्बन्धः । तत्र लोकसंज्ञा भवाभिनन्दिजनमनोवृत्तयस्ताभ्यो विशेषेण परामुखैः विपरामुखैः । लोकसंज्ञाविपरामुखा अपि केचित् स्वबुद्ध्या तीर्थान्तरीया न जिनोक्तक्रियायां सम्यक् प्रवर्त्तन्ते इत्यत आह- 'समुज्झिताः', परित्यक्ता 'अशेषाः समस्ताः 'कदाग्रहाः' कुगुरुकुबोधसम्बन्धजनिताः कुत्सितदेवगुरुधर्मान्तरविषया अभिनिवेशा यैस्ते तथा तैः अनभिनिविष्टरित्यर्थः । 'एते' वक्ष्यमाणा 'गुणा' धर्मा लोकद्वयेऽपि इहलोकपरलोकयोर्न केवलमहलोक एवेत्यपेरर्थः । ' रम्याः' सुखानुबन्धित्वेन रमणीयाः, भवति हि अपूर्वज्ञानाभ्याससुगुरुशुश्रूषादिभ्य इहलोके परलोके च वाछि तसिद्धिरिति । ततः किमित्याह-'स्वकीये देद्दे' शरीरे 'निवेशनीयाः' स्थापनीयाः, निवेशनीयपदं च प्रत्येकमपूर्वपाठादिसर्वेषु अपि गुणेषु योज्यं, इह च देहदेहिनोरमेदविवक्षया स्वात्मनीत्यर्थः । एवं च सति ज्ञानेच्छादीनामान्तराणां गुरुशुश्रूषा
812
प्रथम
कुलकम् । १
॥६॥