SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ द्वादशकुलकम् । || 13 11 'नान्य' इति, न पुनरेतस्मादन्योऽधिकारीत्यर्थः तथा च दर्शनस सत्याम् अर्थिसमर्थसूत्राप्रतिक्रुष्टरूपमधिकारिणं निरूपयद्भिः श्रीहरिभद्रसूरिभिरुक्तं "होइ समत्थो धम्मं, कुणमाणो जो न बीहइ परेसिं । माइपिइसा मिगुरूमाइयाण धम्माण भिन्नाणं ॥ १ ॥ इत्यादि । तदियता सर्वशंकाविकलस्यैव धर्माधिकारित्वं यतोऽतः शंका न कर्तव्येति भाव इत्यर्थः ॥ ७ ॥ किश्च शुद्धधर्मरत्नप्रतिपत्तिलक्षणं कार्यं श्रेयोभूतं वर्तते तत्र च प्रवर्त्तमानानां संभाव्यते विघ्नो जनकादिप्रतिबन्धरूपः, परं तत्संभवेऽपि धीरा धर्मनिश्चलचित्ता एव भवन्ति इत्युपदिशन्नाह - सभावओ चैव हियाणुर्वधि, पओयणं भूरिभवंतविग्धं । विग्द्यभावेऽवि न तत्थ धीरा, चलंति थेवं पि सुराचलु व्व ॥ ८ ॥ व्याख्या-'स्वभावत एव ' निसर्गादेव 'हितानुबन्धि' परंपरयापि आनुकूल्यानुयायि, 'प्रयोजनं' कार्य राज्यलाभ चैत्यभवनविधानादिकं तद् 'भूरिभवद्विनं' भूरयः प्रभूता भवन्तः संपद्यमाना विनाः स्वगोत्रजोत्थानप्रत्यर्थिमिथ्यादृष्टिप्रतिरोधादयः प्रत्यूहा यत्र तत् तथा । यत एतदेवं 'तत्' तस्माद् 'विघ्नभावेऽपि पूर्वोपदर्शितान्तरायसद्भावेऽपि आस्तां तदभावे, 'न' नैत्र 'तत्र' तस्मात् प्रारब्धकार्यविधानात् 'चलन्ति' तत्करणे विमुखीभवन्ति, तत्रेति सप्तम्यन्तमपि पञ्चम्यन्ततया योज्यं, 'वीरा' बुद्ध्या त्रिराजमाना आपत्सु अपि अवैक्लव्यभाजो वा 'स्तोकमपि' अल्पमपि आस्तां सर्वथा प्रारब्धत्यागः । तथा चोच्यते " प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विनविहता विरमन्ति मध्याः । विप्रैः पुनः पुनरपि 10 प्रथमकुलकम् । १ ॥५॥
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy