________________
वा तत्र दोपा मिथ्यात्वादयः ॥ ३ ॥ 'निराश्रवान् परिहृताभिनत्रकमपादाननिमित्तप्राणिवधादिसर्व पापस्थानान्, द्वितीयाबहुवचनान्ते पुंलिङ्गे एकारः सर्वत्र द्रष्टव्यः । अत एव 'पापकलङ्कमुक्तान् कालुष्यपङ्कविचर्जितान्, तथा 'त्रिगुप्तिगुप्ठान्' मनोवाक्काय गुप्तियुक्तान्, तथा मम इत्यव्ययं ममत्वे, तथा च 'अममान्' वस्त्रपात्रशरीरादिष्वपि ममत्वरहितान् तथा 'अमोहान् पित्रादिष्वपि अस्नेहान् 'सुसाधून ज्ञानक्रियावत्वेन सुष्ठु मोक्षसाधनपरायणान् 'धर्मगुरून्' - धर्मप्रकाशकाचार्यान् 'सरितचि' अनुसृत्य अङ्गीकृत्येति यावत् तथा 'ज्ञात्वा' अववुध्य चशब्दः समुच्चये, 'सम्यम्' यथावस्थितत्वेन, नतु विपरीततया, 'जिनधर्मतत्त्वं' तीर्थकृदुपदिष्टश्रुत सामायिकरहस्यम् । सम्यग्ज्ञानं च तदेव निश्चयतो यत्र तदर्थप्रतिपत्तिरिति, तदर्थस्य सर्वस्यापिका गुरुधर्मश्रद्धानरूपसम्यक्त्वप्रतिपत्त्या गुणालयत्वमाविष्कृतम्, ईदृशाश्च अवश्यं धर्मे समुद्यता एव भवन्तीति पूर्वोक्तं त्रितयमपि व्यक्तीकृतमित्यर्थः ॥ ४ ॥ ततश्च 'प्रमत्तलोकानां' विषयकपायादिव्यासकजनानां 'विरूपरूपा' - मशुभस्वरूपां ख्यादिसंसर्गपरप्रहारादिरूपां 'दृष्टा' अवलोक्य 'चेष्टां' व्यापारं, 'कुपथ स्थिताना' - मसन्मार्ग प्रवृत्तिभाजा - मन्यदर्शनिनां स्वदर्शनिनां च स्वदर्शनेऽपि कदाचित् कुक|र्मपारतन्त्र्येण विरूपचेष्टासंभवात्, तस्याश्च वैमनस्यादिहेतुत्वात् ततश्च तत्परिहारोपदेशमाह-' मनाङमात्रमपि' अतिस्वरूपमपि, आस्तां प्रभूतं, न नैव वैमनस्य-मनास्थया स्वर्गादिफलाभावप्रतिपत्त्या करणोत्साहभङ्गः, प्रमत्तता वापि तत्करणशैथिल्यं, वापीति अन्ययोपसर्गसमुदायो विकल्पे, 'क्वचित', कापि कार्ये चैत्यसंघपूजादिके कृत्ये कार्या । इति वृत्तचतुष्टयार्थः ||५||
7