________________
प्रथम
द्वादशकुलकम् ।
व्याख्या-'दुर्लभं' दुष्प्रापमादौ शेषक्षेत्राद्यपेक्षया प्रथम 'नरत्वं' मानुषत्वम् 'उक्त' प्रतिपादित सिद्धान्ते गणधरादि-18 भिरिति गम्यते । ततोऽपि 'क्षेत्रं' वर्ष दुर्लभमित्यत्रापि योज्यं, की शमित्यत आह-जिनधर्मयुक्त', तीर्थकृत्प्रणीतसन्मा- कुलकम् । |गसहितपंचदशकर्मभूमिरूपं, 'तत्रापि' सुक्षेत्रेऽपि, 'जातिः' शुद्धमातृपक्षरूपा, तत्रापि 'कुलं' शुद्धपितृपक्षलक्षणं, तत्रापि 'रूप' पटुपश्चेन्द्रियत्वलक्षणं, अपरिपूणेन्द्रियो हि कथं संयमं विदध्यात्। तथा 'आयुः'-कालानुसारि जीवित्वं, तद्विकलो हि न बहु सद्धर्मकारी स्यात् , तथा 'आरोग्य' नीरोगत्वं, चिरजीवी अपि सर्वदा रोगाकान्तः किं कुर्यादिति आरोग्य | गवेष्यते, तत्रापि 'बुद्धिः'-धर्मग्रहणचातुर्य, तत्रापि 'श्रवणं' सद्गुरुमुखाद्धर्मश्रुतिः, तत्रापि 'अवग्रहः' -श्रुतस्य चिरकालं
धारणाऽवग्रहः, अथवा श्रवणावग्रहः, सुसाधुजनकृतो धर्मश्रवणोपकारः, श्रमणवाचकः श्रवणशब्दोऽपि अस्ति इति, चशब्दः द समुच्चये, दुर्लभपदं सर्वत्र तत्तत्क्षेत्रादिविशेष्यपदलिङ्गापेक्षया स्त्रीनपुंसकत्वेन योज्यम् , एतावता कुलप्रसूतत्वं प्रकाशि
तम् । दीर्घत्वं विभक्तिलोपश्च प्राकृतत्वात् , इत्यर्थः॥ २ ॥ एतच्चेति' चशब्दः पुनरर्थे, ततश्च एतत् पुनः पूर्वोकं मनुव्यत्वादिश्रवणावग्रहपर्यन्तं युष्माभिर्लब्ध्वा-प्राप्य । कीदृशमित्याह-'सुचीपर्णपुण्यप्रागभारलभ्यमपि' सुष्टुविहितसुकृतसंभारप्राप्यमपि 'सर्व' समस्तं, यतो मनुष्यत्वादेरेकस्यापि अभावे संपूर्णसद्धर्मस्य न निष्पत्तिः, अतः किं कर्तव्यमित्याह-न कापि धर्मकृत्ये वैमनस्यं प्रमत्तता वा कार्या इति योगः। तथा 'प्रतिपद्य च' स्वीकृत्य च देवमाराध्यतमं 'शिवैकहेतुं मोक्षाद्वितीयकारणं 'जिनेन्द्रम्' अर्हन्तं, कीदृशमित्याह 'जितरागद्वेष'तिरस्कृतमायालोभकोधमानं, जितरागदोष