SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 3 द्वादशकुलकम् । ॥ ९० ॥ दृशे ! 'उग्रः' प्रचण्डः 'कुग्रहः' कदभिनिवेशो येषां ते तथा युक्तिवाधितत्वेन कुत्सितं शासनं शाखं येषां ते तथा ततश्वोमकु ग्रहाश्च ते कुशासनाश्चेति कर्मधारयः, अथवा उग्रः कुग्रहो यस्मात् तथाविधं शासनं येषामिति, त एवातिक्रूरचिचतया दुष्टव| चनत्वेन च 'भिल्ला:' पर्वतवासिचौराः तैः 'भीमे' भीषणे, तथा 'चिन्ता' नानाविधानर्थानुध्यानं सा एव महामोहहेतुत्वाद् 'विष' गरलं तेन 'उत्कटा अतिप्रबला ये 'कषायाः' क्रोधादयस्तं एवं मरणप्रबन्धनिदानत्वात् 'महाभुजङ्गा' गुरुसर्पा यत्र तत्तथा तत्र, तथा 'अज्ञानं' मिथ्याज्ञानं तदेव समस्तसम्यक्त्वादिगुणदारुदाहकत्वाद् 'देव' आरण्यको ज्वलनो यत्र तत्तथा (तत्र), तथा 'नवेति' नवसंख्या 'नोकषायाः' कपायसहचारिणो हास्यादयः त एव सुमुनिजनमनः कुरङ्गत्रासोत्पादकत्वाद् 'लल्लका' रौद्राः श्वापदगणाः सिंहव्याघतरक्षादिपशुसमूहा यत्र तसथा तत्र, एवंविधे भवगहने ॥१॥ 'जीवाः' प्राणिनः 'चतुर्गतिगता' नरकाद्गितिचतुष्टयावस्थिताः सन्तः, कुलकोटयश्च योनयश्च पूर्वव्याख्याताः तासां 'लक्षेषु' शतसहस्ररूपेषु 'भ्रमन्ति' पर्य्यदन्ति, कीदृशाः सन्तो ? 'दुःखतप्ताः' शारीर मानसव्यथान्यथिताः, बहुशोऽनेकवारं, कियन्तं कालमित्याह - 'दीर्घो' महानुत्सर्पिण्यादिरूपोऽद्धा कालस्तम्, एवकारोऽवधारणे, ततश्च महामिथ्यादृशां दीर्घकालमेवेति शेषाणां तु अनियमः, केन केनेत्याह, भवकायस्थितिभ्यां पृथिव्यादिषु चतुर्षु पुनः पुनः तत्रैवोत्पत्ते-रसंख्यातोत्सर्पिण्यवसर्पिणीनामवस्थानरूपा वनस्पतिषु च ता एवानन्ता अवस्था| नमिति कायस्थितिः । भवस्थितिस्तु एकदा पृथिव्यादिपूत्पत्तौ द्वाविंशतिवर्षसहस्राद्यवस्थानं, भवस्थितिस्तावत् पञ्चमकुलकादाबुक्ता- " बाबी सई सहस्सा सत्तेबसहस्स तिनिहोरत्ता । बाए तिनि सहस्सा दसवाससहस्सिया रुक्खा ॥ १ ॥ एवं कालं पर्थ्यव्यापि किमित्याह- 'नरभवो' मनुष्यजन्म तदादिक्रम्, आदिशब्दात् प्रधानक्षेत्रादिग्रहः, 'न प्राप्नुवन्ति' नैव लभन्ते, कीदृशं 180 दशमं कुलकम् । १० ॥ ९० ॥
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy