________________
A
अथ दुष्टाप्रेसरदशमाश्चर्यादिप्रभावादत्यन्तनिर्गुणसाधुवेषधारिकृतं गाढपरिभयं सद्गुणसाधुजनस्यावलोक्य तान् उपालन्धुमाह
अइ दुसमदुरंतच्छेरय ! ब्भासरासी !, दुसमसमय ! हंभो तुब्भमेसप्पभावो ।
जमिह कवडकूडा साहुलिंगी गुणड्डे, परिभविय पहुत्तं जति नंदन्ति दूरं ॥ २४ ॥ व्याख्या-'अई' इति कोमलामन्त्रणे दशस्त्राश्चर्येषु दशमं सुसाधूनां तिरस्कारेण तदुःखदायित्वेन दुरन्तमाश्चर्य कादाचिकभावरूपं, तस्य संवोधनम् अपि कुषमदुरस्ताच ! बयाको भरमाशे ! दुष्टत्रिंशग्रहविशेष ! तथा 'हंभो' इति प्राकृतसम्बोधनं, तच्च दुःपमासमये त(त्यस्यादौ योजनीयं, ततो भो ! दुःषमासमय ! अवसर्पिणीपञ्चमारक विशेषेऽपि त्रीनपि
दशमाश्चर्यादीन् प्रत्येक संबोध्य उपालम्भमाह-'युष्माक' भवतामेष वक्ष्यमाणः 'प्रभावो' माहात्म्यं, यदित्यादिना उपालभ्यं । दि वस्तु आह-यत् किलेह प्रवचने, साधूनां लिङ्ग रजोहरणादिकं विद्यते येषां ते तथा, विशेष्यपदं चैतत् , फिविशिष्टाः18
सन्तः? इत्याह विश्वासनीयवेषोपदर्शनेन सदननुसारिवचनक्रियाविशेषाः कपटा वितथवादिनः कूटाः ततश्च कपटाश्च ते
कूटाश्च इत्यादिकर्मधारयः, तेच किं कृतवन्तः? इत्याह-गुणान्यान' ज्ञानादिक्षान्त्यादिसमस्तयतिधर्मैश्वर्यवतः, 'परिभूय' असलिहूषणशतारोपणेन महाजनसमक्षं तिरस्कृत्य, 'प्रभुत्व' समस्तजनपूज्यत्वेन स्वामित्वं 'यान्ति प्राप्नुवन्ति, न केवलं प्रभुत्व यान्ति, 'नन्दन्ति च' परिवारपूजाख्यात्यादिभिर्वर्धन्ते च, न हि एवंविधात्यन्तनिर्गुणानां दुरन्तदशमाश्चर्यादिमहामात्यसाहाय्यमन्तरेण
175
AAAAA%A9%8A%