SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मावश कुलकम् । ।। ८७ ।। अपरिणयसुयत्थं जीवियासंसघत्थं, सुहगुरुरयमेवं विंति मुत्तं व देवं ॥ २३ ॥ व्याख्या- 'कुगुरुणां' पूर्वोक्तस्वरूपाणां वचनं वयमिह चरणाढ्या इत्यादिकं परकीयचेतो वञ्चनचतुरं तेन 'दूढा' इति प्राकृतत्वाद् द्रोहिता द्रोहं प्रापिताः, यथा केचिन्मरण भीरवः केनापि विश्वासवचनैर्ब्रह्यन्ते, एवमेते अपि कुगुरुभिः, तथा 'संशयः' | सद्गुरुविषयः संदेहः स एव 'आवर्ती' जलपरिभ्रमः तत्र क्षियाः ताः पूर्वं हि तैरन्यथा सद्गुरुस्वरूपमवधारितं संप्रति तु अन्यथा श्रवणे दर्शने च संदेहः संपन्न इति, 'तथाति बहुभिः' अत्यन्तप्रभूतै- भवैर्जन्मभी 'रूढं' संजातम् 'अतुच्छं' प्रचुरं प्रचलं यद् 'मिथ्यात्वं' विपर्य्ययज्ञानलक्षणं तेन 'मूढा' विचित्ततां प्रापिताः, न हि अविपर्यस्वज्ञानिनां देवबुद्ध्या कुगुरुदर्शनं भवतीति भावः, तथाविधाः सन्तः किं कुर्वन्तीत्याह- परिणतश्चेतसि अङ्गाङ्गिभावेन व्यवस्थितः श्रुतार्थः सिद्धान्ताभिधेयो यस्य स तथोको, न तथेति अपरिणतश्रुतार्थः तं तथा 'जीविका' भोजनादिजीवनोपायलाभः तस्या 'आशंसा' प्रार्थना तिया 'प्रस्तो' व्याप्तस्तम्, एवमगुणमपि गुरुं 'शुभगुरुरयं' सकलकल्याणकारी ज्ञानादिपात्रं युगप्रधान मित्येवं ब्रुवते, लोकानां पुरतोऽपि प्रतिपादयन्ति मूर्त्तमिवेत्युपमानं, साक्षाद्रूपं 'देव' वीतरागमनुमिति, यथा वीतरागः सर्वथा पर्युपास्य एवमयमपीति, तथा चोच्यते "मिध्यादृशामुत्तमदेवरूपको न कौतुकं यत्प्रतिभात्यसद्गुरुः । पित्तावृताक्षा ह्ययसोऽपि गोलकं सौवर्णमेवाकयन्त्यनाकुलाः ॥ १ ॥ एवंविधस्यापि कुगुरोरेवं मुग्धपर्युपासनामालोक्यापि न तत्रास्था विधेया इति भाव इति वृत्तार्थः ॥ २३ ॥ 174 नवसं कुलकम् । ९. ॥ ८७ ॥
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy