________________
द्वादशकुलकम् ।
॥ २ ॥
व्याख्या - कुलप्रसूतादिसमस्त विशेषणयुक्तानां युष्माकं नास्त्येव उपदेष्टव्यं किंचित्, तथापि 'कल्प', इति कृत्वा किंचिद् भणामि इति सम्बन्धः । तत्र कुलं पैतृकं तत्र प्रसूता जाताः कुलप्रसूता - स्तेषाम् । तेऽपि केचिद् निर्गुणा एव स्युः, तथा च तेऽपि उपदेष्टव्या भविष्यन्ति इत्यत आह- 'गुणालयानामिति', गुणाः सामान्यविशेषरूपा धर्म्माः, दयादाक्षिण्यगांभीर्याकौर्यादयः सम्यक्त्व देश विरत्यादयश्च तत्र सामान्यगुणास्तावदेवम्- “धम्मरयणस्स जोगो, अक्खुद्दो रूपत्रं पगइसोमो । लोयप्पिओ अकूरो, भीरू असढो सदक्खिन्नो ॥१॥ लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसपक्खजुत्तो, सुदीहदंसी विसेसन्न ||२|| बुडाणुगो विणीओ, कयन्नुओ पर हियत्थकारी य । तह चेव लद्धलक्खो, इगवीसगुणो भवे सहो || ३ ||" विशेषगुणास्तु एवम् - "सम्मत्तं गुरुभक्ती देसजइत्तं चरित्तरागो य । वेयावचं गुरुदेवयाणमेए विसेसगुणा " ॥ १ ॥ एतेषामालया आश्रयास्तेषाम् । 'तुम्हाणंति' युष्माकमिति उपदेशबोध्यत्वेन सर्वदान्तःकरणे विवर्त्तमानानां साक्षादनुपात्तानामषि श्रावकाणां ग्रहणम् । सर्वत्र चात्र चतुर्थ्यर्थे षष्ठी । गुणवन्तोऽपि केचित् प्रमादादिना न धर्मे समुद्यमभाजो भविष्यन्ति इत्यत आह- 'धर्मे' संपूर्ण श्रावकसमाचारे वीतरागसपर्या सामायिकावश्य कादौ 'स्वयमेव' परोपदेशादिकं विनापि समुद्यतानामुद्यमपराणाम् । तथा चैवंविधानां किमुपदेश्यम्, उपदेश्यस्यार्थस्य स्वयमेव विधानादिति अभिप्रायवानाह - 'नास्त्येव' न विद्यत एव 'किंचित्' स्वल्पमपि कार्यमुपदेश्यं, नास्त्येवेति एवकारेण सर्वथा उपदेशविषयताऽभावमाह । उपदर्शनीयमिति पाठपक्षे तु वचनेन क्रियया वा न दर्शनीयमस्ति । ननु किमर्थं तर्हि तवापि तदुपदेशे प्रवृत्तिरित्यत आह 'तथापीति' अत्र यद्यपि इति शेषः, ततश्च यद्यपि एवं सर्वथाप्युपदेशप्रवृत्तिरसमीचीनैव तेषु तथापि 'कल्प इति' समाचार इति । साधूनां हि अयं
4
प्रथम
कुलकम् ।
॥ २ ॥