________________
प्रायोधयत् सकलवागडदेशलोक. सूर्योऽरुणेन कमल किरणरिव स्वः ॥१०॥ तानि द्वादश विस्तृतानि कुलकान्यम्भोधिवद् दुर्गमान्यत्यन्तं च गभीरभूरिसुपदान्युन्निद्रतार्याणि च । व्याख्यातुं य उपक्रमः कृशधियाऽप्याधीयते माशे-नारोद तदमर्त्यशैलशिखरं प्रागल्भ्यतः पङ्गुना॥११॥ एवं श्रीजिनवल्लभस्य सुगुरोश्चारित्रिचूडामणेभव्यमाणि विवोधने रसिकतां वीक्ष्यामृतां शाश्वतीम् । आदेशाद् गुणविन्नबाङ्गाविवृतिप्रस्तावकस्यादरात् , प्रादात् सूरिपदं मुदश्चितवपुः श्रीदेवभद्रः प्रभुः ॥ १२॥ इह हि संप्रति विशिष्टज्ञानवरपुरुषसंपार्कोद्योताभावेन भव्यजनानामपि अपगतसम्यग्दर्शनविवेकविलोचनानां भगवान् कारुण्यरसपाथोनिधिः श्रीमत्तीर्थाधिपोपदिष्टश्रुतनिकषावगमप्रवर्तितसम्यक्सारविधिः समस्तविद्यानितम्बिनीचुम्बितवदनारविन्दः समभिनन्दितसत्कविकोविदवादिवृन्दः श्रीमज्जिनवल्लभसूरिमुनिवरः, तदुपचिकीर्षया विवेकलोचनोन्मीलकरसायनाञ्जनशलाकामख्यानि द्वादशकुलकानि आविश्चकार । तेषामपि प्रवरधर्मोपदेशप्रस्तावनाप्रख्यमाद्यकुलकमारभमाणः सप्रशंसं च विनेया धर्मे उपदेष्टव्या इति शिष्टसमाचारं सत्यापयन् तेषां सकलगुणोपेतत्वेनोपदेशाविषयतामाशय साधुसमाचारमात्रत्वेन उपदिश्यत इति उपदर्शयन् प्रथमवृत्तमाह
कुलप्पसूयाण गुणालयाणं, तुम्हाण धम्मे सयमुज्जयाणं । ....... नत्थेव किंची उवदेसणिज, तहावि कप्पुत्ति भणामि किंचि ॥ १॥....।
2