SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ञ्चालिका वेधोदाहरणेन यथासौ दुःप्रापस्तथा सुक्षेत्रादिकमपि, यथा च राधावेधः कथमपि संपद्यते, तथा सुक्षेत्रादिलाभोऽपि, तदाह-' लब्धं' प्राप्तं यदि कथंचिदतिदुर्लभमपि तथापि एवमपि सति 'हुः 'पूरणे, बुद्धिविधानमति-दुर्लभा, 'शुद्धधर्मे' प्रति श्रोतोरूपविधिधर्मविषये, सुक्षेत्रादिलाभेऽपि प्रायो भोगवाञ्छैत्र जीवानां न धर्मबुद्धिरिति भाव इति गाथार्थः ॥ ४ ॥ सत्यामपि शुद्धधर्मबुद्धी तच्छ्रवणे प्रभूतान्तरायसद्भावमाह - अह कमवि जाया काकतालीयनाया जिणमयसुइबुद्धी तो वि से पच्चवाया । भयकुमय कसायालस्सव (वि) क्ववन्नारमण केवणयाही सोग मोहप्पमाया ॥ ५ ॥ व्याख्या- 'अर्थ' इति आनन्तर्ये सुक्षेत्रादिलाभानन्तरं, 'कथमपि कृच्छ्रेण पुण्योदयवशात् 'जाता' संपन्ना, कासावित्याह'जिनमतस्य' अर्हत्प्रवचनस्य सिद्धान्तरूपस्य 'श्रुतिः' श्रवणं तत्र बुद्धिर्यदि तीर्थकृदुपदिष्टो धर्मः श्रूयते इत्येवंरूपा मतिः, कस्मा दसौं जाता ? इत्यत आह- काकतालीयज्ञातात् पूर्वोक्तात्, यथा काकस्य तालेन योगः कादाचित्को महाकृच्छ्रभावी, तथा जिनमत श्रुतिबुद्धिरपि इत्यर्थः यद्यप्येवं महाकृच्छ्रेण श्रवणबुद्धिर्जाता 'तो वि त्ति' ततोऽपि 'से' तस्याः श्रवणबुद्धेः 'प्रत्यपाया' विना भवन्ति अनेके, तानेवाह भयं च कुमतं च कषायाश्च आलस्यं च विक्षेपाश्चावज्ञा च रमणं च कृपणता चाध(यश्च शोकश्च मोहश्च प्रमादश्चेति द्वन्द्वः समासः, तत्र भयं तावदेते साधवः पापकारिणां नार्‌कादिदुःखमादर्शयिष्यन्तीति त्रासात् न शृणोति, एवं कुमतात् कुतीर्थिक दर्शनग्रहात्, कुमतेर्वा कुत्सितभोगाद्यतिशयितबुद्धेः वा, कषायाद् वा साधुद 151 .12.
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy