________________
तु वचनभेदार भिन्नस्वभावतां वस्तुन इति, अयमपि अर्थश्च शब्दरूपव्यञ्जनं चेत्युभयं तद्रूपस्य वस्तुनो व्यञ्जनपथ्याकायस्यैव समाश्रयणात् मिथ्यावृष्टिः, समभिरूढस्तु न पायाणामेकार्थतां मन्यते. किन्तु घटनाद् घटः कुटनात् कुटः को
भातीति कुम्भः, ततश्च न घटनमेव कुटनमिति शब्दप्रवृत्तिनिमित्तभेदात् घटशब्दवाच्यात् कुटशब्दवाच्योऽन्य एवेति मन्यते,अयमपि पूर्वोक्तशब्दाभिहितधर्मवत् वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवहस्तिज्ञानवत् मिध्यादृष्टिः, एवंभूतनयस्तु : यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन् घटादिके वस्तुनि तदेवासौ युवतिमस्त कारूढ उदकाद्याहरणप्रवृत्तो घटो भवति, न निापारः, एवं वनं धारयन्नेव वज्रधरो. न शेषकाले. शब्दमवृत्तिनिमित्ताभावात् , अयमपि अनन्तधर्माध्यासितस्य | वस्तुनोऽनाश्रयणाद् मिथ्यादृष्टिः, तदेवं सर्वेऽप्येते साबधारणा मिथ्यात्वं, परस्परत्तव्यपेक्षा-स्तु स्याच्छन्दलाञ्छिताः सम्यक्त्वमिति. तथाचोक्तम् "अभयदेवेन-विशुद्धं द्रव्यमाश्रित्य संग्रह-स्तदशुद्धितः। नंगमव्यवहारौ स्तां शेषाः पायमाश्रिताः ॥ १॥" तदुक्तम्-अन्यदेव हि सामान्य-मभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ २॥ सद्प-12 ताऽनतिकान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ॥३॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वात् व्यवहारयति देहिनः॥ ४ ॥ पर्यायनयभेदास्तु ऋजुत्रादयः, तत्र ऋजु(तत्रर्जु) सूत्रनीतिः स्याच्छुद्धपर्यायसंश्रिता । नश्वरस्थव भावस्य भावात् स्थितिवियोगिनः॥५॥ अतीतानागताफारकालसंस्पर्शवर्जितम् । वर्तमा-1 नतया सर्वमृजुसूत्रेण सून्यते ॥ ६ ॥ विरोधिलिङ्गसंख्यादिभेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिछते ॥ ७ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरुवस्तु संज्ञाभेदेन भिन्नताम् ॥८॥ एकस्याबिनेबाच्य।
14)