________________
द्वादश
अष्टम
कुलकम् ।
॥६९॥
नाह-'ता धुव मिति', यस्मादुक्तयुक्त्याऽसार एवं संसारतत् तस्मात् कारणात् 'ध्रुवमधुवं च' ज्ञात्वा संसारमिति विरोधाभासः, |अब व निश्चित नात्र संदेह इति यावत् , यत् किमधुवसस्थिरं सर्वस्य जीवितादेः अस्थिरत्वात् , तथा 'असारं तुच्छ वैषयिकसुखादेः तथाविधत्वात् , अत एव 'दुःखाधारं' मानसशारीरवाधाश्रयं च ज्ञात्वा परिभाब्य संसारं, तस्य संसारस्य क्षयो ध्वंसस्तत्कृते तन्निमित्तं, 'मतिमता विवेकिना, 'न' नैव, कदापि सांसारिकप्रयोजनभरेऽपि, प्रमादितव्यं प्रमादो विधेयोऽपि तु तत्क्षयोद्यम एव, इतिः परिसमाप्ती, अयमभिप्रायो-'ज्ञानस्य फलं विरतिः' इति, तत्स्वरूपे विरूपे ज्ञाते यदि तत्क्षये समुद्यम्यते, तदेव तज्ज्ञानफलमिति गाथापञ्चकार्थः ।। २४ ।"
एवं सहजभयादिस्वरूपं संसारमभिधाय, अथ तस्य हरणे हेतुमनुष्ठानमाहभवभयहरं च भणियं नियनियगुणठाणगोचियं निच्चं । सदण्टाणं ठाणं कल्लाणाणं समग्गाणं ॥२५॥ __ व्याख्या-भो भव्याः? पूर्वोक्तभवभयहरं तन्नाशकं च भणितं प्रतिपादितं च गणधरादिभिरिति गम्यते, किं तदित्याह-सदनुष्ठान' शोभना चैत्यपूजनवन्दनकसामायिकादिकक्रिया, कीदृशं तदित्याह-निजनिजगुणस्थानकोचितं', 'नित्य' सर्वदा, श्राद्धस्य हि द्वे गुणस्थानके अविरतसम्यग्दृष्टित्वं देशविरतत्वं च, तत्राविरतस्य देवपूजादिकमुचितं, देशविरतस्य तु सामायिकपौषधोपवासप्रतिक्रमणादिकमुचितं, कीदृशं तदित्याह-स्थानमुपार्जनभूमिः कल्याणानां सममाणामिति प्रसिद्धमेव, तस्मात् तदनुष्ठानमौचित्ते(त्ये)न क्रियमाणं भवभयहरणहेतुरिति कर्त्तव्यमेवेति भाव इति गाथार्थः ॥२५॥
का॥६९h
138
-----
--