SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ A . - पणेषु अपिशब्दा विस्मयार्थाः तेन महदद्भुतमेतद् यदेवंविधोऽपि लघुतामासादयतीति भाव इति गाथार्यः ॥ ११ ॥ किंच स्वोत्सेकवतामिह लोकेऽपि आत्मकार्यासाधकत्वमेवाहपरपरिभवमत्तुक्करिसमसरिसकुलग्गया वि कुवंता। सयलजणुवियणिज्जा न सकज किंचि साहिति ॥१२॥ व्याख्या-परेषां परिभवः' तिरस्कारस्तं, तथा 'आत्मोत्कर्षम् आत्यन्तिकमहंकारं च, चशब्दो लुप्तो द्रष्टव्यः, 'असदृशकुलोद्गता अपि' निरुपमगुणगोत्रसंभूता अपि, आस्तां तदितरे, 'कुर्वाणा' विदधानाः, सकलजनस्य न तु कस्यचिदेव 'उद्धेजका' उद्वेगकारिणः, तथाहि-ये परिभूयन्ते येभ्यश्चात्मानमुत्कर्षयत्यसौ, ते तत्पक्षपातिनश्च सर्वेऽप्युद्धिजन्ते, उद्विग्नजनाश्च 'न' नैव 'स्वकार्य निजप्रयोजनं किंचित् किमपि स्वल्पमपि 'साधयन्ति' निष्पादयन्ति, जनानुरागप्रभवत्वात् तस्य, तथा चोच्यते-"जनानुरागप्रभवा हि संपद" इति गाथार्थः ॥१२॥ एवमैहिक मानदोषमभिधाय, अध पारलौकिकं तमाहनीयागुत्तं गाढं समजिउं परभवे पुणो सुइरं । सवजणगरहणीया नीयासु हवंति जाईसु ॥ १३ ॥ व्याख्या-यदुदयाद् गुणवतोऽपि प्रशंसादिकं न संपद्यते, 'तनीचैर्गोत्रम् । अथवा संकीर्णकुलादिकं नीचैर्गोत्रं, तत्समर्त्य मानविधानादुपाज्य, 'गाढं' तीव्रम् अवश्यवेद्यं, 'परभवे' जन्मान्तरे, पुनर्भूयोऽपि 'मुचिरं बहुकालं, 'नीचासुम श्वाविरूपासु 'जातिषु' चाण्डालाद्यशुद्धमातृपक्षरूपासु, 'सर्वजनगईणीयाः' समस्तलोकनिन्दापात्रतामुपगता बन्ति' 131
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy