________________
A
.
-
पणेषु अपिशब्दा विस्मयार्थाः तेन महदद्भुतमेतद् यदेवंविधोऽपि लघुतामासादयतीति भाव इति गाथार्यः ॥ ११ ॥
किंच स्वोत्सेकवतामिह लोकेऽपि आत्मकार्यासाधकत्वमेवाहपरपरिभवमत्तुक्करिसमसरिसकुलग्गया वि कुवंता। सयलजणुवियणिज्जा न सकज किंचि साहिति ॥१२॥
व्याख्या-परेषां परिभवः' तिरस्कारस्तं, तथा 'आत्मोत्कर्षम् आत्यन्तिकमहंकारं च, चशब्दो लुप्तो द्रष्टव्यः, 'असदृशकुलोद्गता अपि' निरुपमगुणगोत्रसंभूता अपि, आस्तां तदितरे, 'कुर्वाणा' विदधानाः, सकलजनस्य न तु कस्यचिदेव 'उद्धेजका' उद्वेगकारिणः, तथाहि-ये परिभूयन्ते येभ्यश्चात्मानमुत्कर्षयत्यसौ, ते तत्पक्षपातिनश्च सर्वेऽप्युद्धिजन्ते, उद्विग्नजनाश्च 'न' नैव 'स्वकार्य निजप्रयोजनं किंचित् किमपि स्वल्पमपि 'साधयन्ति' निष्पादयन्ति, जनानुरागप्रभवत्वात् तस्य, तथा चोच्यते-"जनानुरागप्रभवा हि संपद" इति गाथार्थः ॥१२॥
एवमैहिक मानदोषमभिधाय, अध पारलौकिकं तमाहनीयागुत्तं गाढं समजिउं परभवे पुणो सुइरं । सवजणगरहणीया नीयासु हवंति जाईसु ॥ १३ ॥
व्याख्या-यदुदयाद् गुणवतोऽपि प्रशंसादिकं न संपद्यते, 'तनीचैर्गोत्रम् । अथवा संकीर्णकुलादिकं नीचैर्गोत्रं, तत्समर्त्य मानविधानादुपाज्य, 'गाढं' तीव्रम् अवश्यवेद्यं, 'परभवे' जन्मान्तरे, पुनर्भूयोऽपि 'मुचिरं बहुकालं, 'नीचासुम श्वाविरूपासु 'जातिषु' चाण्डालाद्यशुद्धमातृपक्षरूपासु, 'सर्वजनगईणीयाः' समस्तलोकनिन्दापात्रतामुपगता बन्ति'
131