________________
'कोपपरं' समुत्कटको धप्रधानं 'जनं' लोकं कः पुरुषादिः 'समालीयते' आश्रयति, सुखार्थी न कोपीत्यर्थः । अत्रोपमा 'स्फुरिता' नलसिताः फणामणिकिरणा:- स्फटारलोद्योता यस्य स तथा (तं) । वेत्युपमानम्, अनेन तस्य गुणवस्य - मुक्तं, तादृशमपि 'घोरं' कृष्णातिदीर्घत्वादिना रौद्रं, तथा आशीस्तालुगता दंष्ट्रा यया विद्धो न जीवतीति तत्र त्रिषं यस्य स तथा तम्, अनुस्वारलोपः प्राकृतत्वाद्, 'भुजङ्गे' सर्पमिति विशेष्यपदं, यथासौ सगुणोऽपि दूरेण त्यज्यते, तथा क्रोधनोऽपीति गाथार्थः ॥ ८ ॥
अथ तस्यैव विकृताकारत्वं गाथाद्वयेनाहघडिउब्भड भिउडी भंग भासुरो भभिरतंविरच्छिजुओ । विविsबियवयणो सिढिलक डिल्लो सुदुपिच्छो ॥ ९ ॥ गहिरविरससदो विठुलगई य सिज्जिरसरीरो | कोहम ग्गगहिओ होइ नरो लोगभयजणगो ॥ १० ॥
व्याख्या - क्रोधग्रहगृहीतो भयजनको भवतीति सम्बन्धः कीदृशः १ यतः 'घटिता' रचिता 'उद्भटा' अत्युत्कटा या 'भ्रुकुटी' ललाटप्रदेशे रेखाचयादिलक्षणा, तस्या 'भङ्गो' वकादिरूपः तेन 'भासुरो' दीपो रौद्र इति यावत्, तथा भ्राम्यदतिचञ्चलं
29