________________
०कु० १
| अर्हम् ॥
श्रीनवाङ्गीवृत्तिकार श्रीमज्जिन- अभयदेवसूरिशिष्य - श्रीमज्जिनवल्लभ सूरिविरचितम्
द्वादशकुलकम्.
श्रीमजिनपतिसूरिशिष्य - प्रवरपण्डित श्रीमजिनपालकृतविवरणसमेतम् ।
प्रथमकुलकम् ।
नृत्यन्नानाविलासोद्धुरविबुधत्रधूसत्कटाक्षच्छटाभिः श्वेताभिः श्वेतिमानं स्तवकितमभजन् नूनमङ्गं समग्रम् । श्रीमज्जन्माभिषेके सुरगिरिशिखरे यस्य लोकबन्धोः, स श्रीचन्द्रप्रभाख्यो जिनपतिरसमश्रेय से बः सदा स्तात् ॥ १ ॥ श्रीमच्चान्द्रकुलाम्बरैकतरणेः श्रीवर्द्धमानप्रभोः, शिष्यः सूरिजिनेश्वरो मतिवचःप्रागल्भ्यवाचस्पतिः । आसीद् दुर्लभराजराजसदसि प्रख्यापितागारवद्, - वेश्मावस्थितिरागमज्ञसुमुनिवातस्य शुद्धात्मनः ॥ २ ॥ तस्मादभून्नवनवाङ्गविवृत्तिवेधा, मेधानिधेस्तनुतरो जिनचन्द्रसूरेः । संस्थापितानुपमधामजिनेन्द्रपार्श्वः, श्रीस्तम्भने पुरवरेऽभयदेवसूरिः ॥ ३ ॥
1