________________
द्वादशकुलकम् ।
॥ ६३ ॥
तुल्यं महाकृच्छ्रप्राप्यत्वेन लब्ध्वा कथं कथमपि तीव्रतरकर्मक्षयोपशमवशेन, मनुजत्वं प्रसिद्धमेवेति गाथार्थः ॥ २ ॥ यथा हि रोगी रोगोद्भवसमयातिकान्तौ प्राप्त एव योग्यसमये औषधं लभते, एवं जीवोsपि लब्धमनुष्यस्व एव विशि |ष्टधमोंपदेशयोग्य इति धमपधविधानोपदेशमाह -
सन्सबदेसीहिं दंसियं सवभवबंधूहिं । सवाहिवाहिहरणं सम्मं धम्मोसहं कुणह ॥ ३ ॥ व्याख्या - धर्मोषधं कुरुत इति योगः कीदृशमित्याह - सर्व समस्तं सूक्ष्मव्यवहितविप्रकृष्टं वस्तु जानन्ति विशेषरूपतया बुध्यन्ते इति सर्वज्ञाः, एवमेव सर्वं पश्यन्ति सामान्यरूपतयापि विलोकन्ते इति सर्वदर्शिनः, ततश्च सर्वज्ञाश्च ते सर्वदार्शनश्च [ते] इति कर्मधारयः, तै- दर्शित-मादी उद्दिष्ट मनेन ज्ञानसंपदुपदेष्टुरुक्ता, तथा 'सर्वभव्यानां' समस्तयोग्यपुरुषाणां बन्धुभिरिव बन्धुभिः हितैरित्यर्थः । अनेन कारुण्यसम्पदुक्ता, सम्यग्ज्ञानवानपि अहितो न सम्यगुपदिश्या-दिति द्वयमहणं, कीदृशं तदित्याह - सर्वे आधयो मानस्यः पीडा व्याधयः शारीरवाघाः तेषां हरणम्-अपनायकं, 'धर्मोपर्व' धर्मानुष्ठानागदं, सम्यग् यथोपदिष्टनीत्या, कुरुत यूयमिति द्रव्यौषधमपि ज्ञानकारुण्यवता आत्रेयमुनिप्रभृतिनादौ उपदिष्टं सम्यक् क्रियमाणं व्याधिहरं भवतीति भाव इति गाथार्थः ॥ ३ ॥
आदौ तथाविधपुरुषधौरेयोपदिष्टमपि सांप्रतिको पदर्शकमन्तरेण न ज्ञायते, अतस्तदुपदर्शकेषु आज्ञाविलंघन परिहारेण तत्करणमाह
तस्लोवएसयाणं आणं च गुरुण भावविजाणं । सम्ममणइक्कमंता जहोचियं जयह सवत्थ ॥ ४ ॥
12.6
अट कुलकम् 1
॥ ६३