________________
तिदुःखावहः, एष प्रत्यक्षतोऽनुभूयमानः, 'हीति' खेदे, विषमस्तीवसन्निपातवत् सामान्यसदुपदेशौषधमात्रासाध्यः, अत एव वक्ष्यति, “दुर्निवारो' महाकृच्छनिवर्तनीयश्च, 'भवव्याधिः संसाररोगः, 'देहिनां' प्राणिनामिति गाथार्थः॥१॥ अथैतद् व्याधिकृतं दुःखमभिधाय तदुपशम धौषधं गाथाद्वयेनाह
इमिणा किलिस्सिऊणं मुइरं चुलसीतिजोणिलक्खेसु ।
जुगसमिलाजोगसमं लहिउँ कह कह वि मणुयत्तं ॥ २ ॥ व्याख्या-'अमुना' संसारव्याधिना 'क्लिशित्या' गाढं क्लेशमनुभूय, 'सुचिरम्' अनन्तकालं, कुत्र कुत्रेत्याह-'चतुरशीतियोनिलक्षेपु' योनय उत्पत्तिस्थानानि तासां लक्षाः शतसहस्राणि चतुर्मिरधिका अशीतिः, चतुरशीतिश्च ता योनिलक्षाश्च तंत्र, ताश्चैवं-"पुढेवि-दंग अगणिमारुय एकेके सत्तजोणिलक्खाउ । वणपत्तेयं अणंते" दस चवदस जोणिलखाउ॥शा सर्वेऽपि २४। विगलिंदिएसु दो दो (द्वित्रिचतुरिन्द्रियेषु सर्वेऽपि षट्), चउरो चउरो य नारयसुरेसु, (सर्वेऽपि ८) तिरिएसु हुँति चउरो ४ चरदसलक्खा य १४ मणुएसु ॥२॥" ननु पृथिव्यादीनां प्रत्येकमसंख्येयत्वात् कथं सप्त सप्तैव योनिलक्षाणि, यतः सर्वेपां भिन्नभिन्नान्येवोत्पत्तिस्थानानि, इति चेदुच्यते, समवादिसमेतानामुत्पत्तिस्थानानामेकत्वेन गणनात् , ततश्च सहस्रलक्षकोटिसंख्या अप्येकयोनिका एव ते, तथा चोच्यते-“समवन्नादिसमेया बहवो वि हु जोणिलक्खमेयाउ । सामन्ना घेवंती पक्गजोणीए गहणेणं ॥ १॥" एवं च संभवत्येव यथोक्तं योनिमानमिति, ततश्च 'युगसमिलायोगा' पूर्वोक एष तेन 'सम'
12.S