________________
अष्टम कुलकम्।
द्वादश
व्याख्या-इत्येवं पूर्वोक्तं सर्वानित्यत्वं 'चिन्तयित्वा' अनुध्याय, 'निजहृदये' स्वकीयचित्ते, तथा 'दुर्लभलाभ' दुरापप्राप्ति कुलकम् ।।दाच 'जिनमत' सर्वज्ञोपदिष्टमार्ग 'ज्ञात्वा' अवबुध्य इदं मदद्वचनोपदेशरूप 'कुरु' विधेहि, कीदृशामित्याह विरसम्'-अत्यन्त
कटुविपाकम्-अवसानं पर्यन्तः फलविपाककालो यस्यासौ विरसावसानः स चासी 'भववासश्च' संसारावस्थितिः तस्य ॥ ६२ ॥
|'नाशनं क्षयहेतुरिदं वचनं तदवश्यमिदं कर्तव्य-मित्युपदेश इति गाथार्थः ॥ १५ ॥
इति श्रीयुगप्रवरागमश्रीमन्जिनपतिसूरिशिष्यलेशविरचितायो द्वादशकुलकवृत्तौ सप्तमकुलकविवरणं समाप्तमिति ॥
अथ अष्टमं कुलकम् ।
पूर्वमिंस्ताबद्धनकनकादिममत्वस्यान्तरस्य संसारहेतुत्वमुक्तम्, अत्रापि अष्टमे कुलके मिथ्यात्वकपायादे-रान्तरस्यैक तद्धेतुत्वमुच्यते, इत्येवं संबद्धस्यास्य संसारव्याध्युपशमनौषधं विवक्षुः प्रथमं तावत् संसारव्याधिमस्तत्वमेव जीवानामाहपुवकयकम्मजणिओ दुरंतच उगइदहावहो एस । ही विलमो भववाही देहीणं दुन्निवारो य॥१॥
व्याख्या-देहिनां संसारव्याधि-वर्तते इति योगः, कीदृशः? 'पूर्वकृतकर्मजनितो' जन्मान्तरोपात्तदुष्कृतापथ्योत्पादितः। द इति कारणमुक्त-मथ तत्कार्यमाह-'दुरन्तानि' दुष्टावसानानि यानि 'चतुर्गतिदुःखानि' तान्यावहति करोतीति दुरन्तचतुर्ग-1
124