________________
द्वादशकुलकम् ।
॥ ६० ॥
व्याख्या - स्वाध्यायस्य नियमोऽवश्यंभावेन करणं विधानं, तथा 'अपूर्वपटलं न' प्रसिद्धमेव, उचितसमयेऽस्वाध्यायकाल परिहारेणेति भावः, स चायं "घड पोरिसिओ दिवसो दिणमज्झते य दुझि घडियाओ । एवं रयणीमज्झे अंतम्मि उतार चारि ॥ १ ॥ चिचासोए सियसत्तममीनवमी तिसु तिहीसुंपि । बहुसुयनिसिद्धमेयं न गुणिवएसमालाइ ॥ २ ॥” इति तथा 'कृत्यं' विधेयं 'नित्यमपि' सर्वदापि न तु कदाचिदेवेतिभावः, योग्यस्यानतिक्रमेण यथायोग्यमभिग्रहाणां जिनगुरुसाधार्मिकवैयावृत्त्यविषयाणां नियमानां ग्रहणं स्वीकारो यस्य, यो योग्य स एव तेन ग्राह्य इति भावः, सर्व घेते स्वाध्यायादयः संवेगोपयोगिन इति तदुपदेश इति गाथार्थः ॥ ८ ॥
जिणसु कसायपिसाए पसिद्धसिद्धंतमंतजावेण । उवसमयसु विसयतिसं संवेगामयरसं पाउं ॥ ९ ॥
व्याख्या- 'जय' वशीकुरु 'कपायपिशाचान्' प्रसिद्धान्, केन कारणेनेत्याह-प्रकर्षेण सिद्धः प्रतीतः तद्वशीकारहेतुतया यः सिद्धान्तः - "जं जं दुक्खं लोए जं च सुहं उत्तमं तिहुयणम्मि । तं जाण कसायाणं बुद्धिक्लयहेजयं सबं ॥ १ ॥” इत्याद्यागम एव मन्त्रः पठितसिद्धविद्याविशेषः तस्य 'जापः' सादरमनुध्यानं तेन, यथा हि मन्त्रजापेन पिशाचा वशीक्रियन्ते, तथैतदनुध्यानेन कपाया अपीति भावः । तथा उपशमय निवर्त्तय 'विषयतृषां' शब्दाद्युपभोगस्पृहां, किं कृत्वा इत्याह- 'संवेगो' मोक्षसुखाभिलाषः स एवात्यन्तिकानन्दहेतुत्वात् सुधारसोऽमृतनिर्यातः तं 'पीत्वा' आस्वाद्य, तावदेव विषयेषु तृष्णा यावन्न मोक्षसुखानुचिन्तनमिति भाव इति गाथार्थः ॥ ९ ॥
120
aa
कुलकम् ।
७