________________
च्याख्या-त्रिकालं चैत्यवन्दनं जघन्यतोऽपि, अमन्दानन्दसुन्दरं “कहिं मायंगगेहे एरावणो हत्थी' इत्यादि सोत्कर्षप्रमोदमनोहरं, "विधिना' अक्षरमुद्रादिविधानाज्ञया, तथेति समुच्चये, 'सुविहितयतिसेवन' सदाचारमुनिपर्युपासनम्-इतः सुविहितयतिभ्य एव च "जिनवचनश्रवण' सर्वज्ञागमाकर्णनं, कुरु इति योज्यमिति गाथार्थः ॥ ६॥
तथाजिणपूयाइविहाणं तम्गुणनाणं तहा मुणिंदाणं । विहिदाणं सुहन्झाणं तवरबहाणं च जहसत्तिं ॥ ७॥1 ___ व्याख्या-'जिनपूजा' प्रसिद्धा, अथवा जिनपूजादीति आदिशब्दात् चैत्यद्रव्यरक्षणादिचिन्ताग्रहः तस्या 'विधान' सादरं द्र करणं, तथा तस्य जिनस्य गुणा वीतरागत्वादयः तेशं ज्ञानम्-अवबोध-स्तद्गुणज्ञानं, सति हि तस्मिन् सातिशया तभक्तिः स्यात् , तथा च तद्वन्दनादिकमपि भावरूपं स्याद्, अथवा तस्याः पूजाया गुणः स्वात्मन उपकारः-तज्ज्ञानं, ततोऽपि तत्रादरः स्यात्, कुरु इति क्रियायोगः प्रायः सर्वत्र, तथेति समुच्चये, 'मुनीन्द्राणां' विधिना दानं प्रसिद्धमेव, तथा 'शुभध्यान संवेगोपयोगिपदार्थानुचिन्तनं, तथा तपस उपधानमनुष्टानं च यथाशक्तीति प्रसिद्धमेव शीलं तु व्रताद्यनुपालनरूपं स्थित-12 मेवेति चतुर्विधधर्मानुष्ठानोपदेशोऽयमिति गाथार्थः ॥७॥
तथासज्झायनियमकरणं अपुवपढणं च उचियसमयम्मि। किच्चं निञ्चं पितहा जहजुम्गमभिग्गहगहणं ॥
119
TAS