________________
रेण, 'कदापि' कस्मिंश्चिदपि परिणामविशेषवति काले, केचिदेव न तु सर्वे जीवाः, प्राप्नुवन्ति त्रसभावं, त्रस्यन्ति भयादिका रणेन नश्यन्तीति कृत्वा त्रसा द्वीन्द्रियादयः तद्भावम्, आदौ तावत् त्रसत्वमेव दुर्लभमिति गाथार्थः ॥ १ ॥ क्रमेण नरत्वादीनामपि दुर्लभत्वमाह
| तत्थ नरतं तत्थवि सुहखित्तं तत्थ जाइकुलरूवं । तत्थारोग्गं तत्थ वि चिरजीवित्तं च अइदुलहं ॥ २ ॥ व्याख्या- तत्र त्रसत्वे नरत्वं दुर्लभमिति योगः, दुर्लभपदमुत्तरपदेष्वपि सर्वेषु योज्यं, तत्रापि नरत्वे 'शुभक्षेत्र' भारतादिकं तत्रापि सुक्षेत्रे जातिश्च कुलं च रूपं चेति समाहारद्वन्द्वस्तत्, तत्र जात्यादिलाभेऽपि 'आरोग्यं' व्याधिवैकल्यं, तत्रापि आरोग्ये चिरजीवित्वमतिदुर्लभमिति व्यक्तमिति गाधार्थः ॥ २ ॥
तत्थ वि बहुसुहकम्मोदएण धम्मे वि हुज जइ बुद्धी | तो वि जियाण न सुलहो जिणवयणुवएसगो सुगुरू ॥ ३ ॥
व्याख्या- 'तत्रापि' चिरजीवित्वेऽपि प्रायः पापबुद्धिरेव जीवानामित्यत आह, 'बहुशुभकम्मोदयेन' प्रभूतपुण्यप्रकृत्यावि भवन, 'धर्मेऽपि' शुभानुष्ठानेऽपि पापानुष्ठाने भवत्येव इत्यपिशब्दार्थः, 'भवेत्' स्याद्, यदि कथंचिद् बुद्धिरभिप्रायः ततोऽपि तथापि 'जीवानां न सुलभो नैव सुप्रापोऽपि तु दुर्लभ एव, 'जिनवचनोपदेशको' यथावस्थितप्रतिश्रोतोमार्गोपदेष्टा, सुगुरु-र्ज्ञानक्रियावानाचार्यादिः, प्रायः पाखण्डिनां कुगुरूणामेव भूरिशः प्राप्तेः इत्यभिप्राय इति गाधार्थः ॥ ३ ॥
117