________________
व्याख्या-तति समुच्चये सुगुरुवचनासक्ताः परं पदं जीवा गता इति योगः, किं कृत्वेत्याह-जिनमतम्-अहत्प्रवचन (सम्यक्) यथावस्थितत्वेन ज्ञात्वाऽवबुध्य, कीदृशमित्याह, 'भवार्णवतारणं' संसारसमुद्रपारप्रापकम् , एतदंतरेणान्यस्य तत्प्रापकरवाभावात् , 'अनिपुणा' मिथ्यात्वोपहतत्वेन यथावस्थितार्यग्रहणाकुशलाः ते च ते जनाश्च, तेषां तैर्वा उत्प्रेक्षा असदोंत्प्रेक्षणं तया अशुद्धा जीवोपघातादिनिमित्तत्वेन कलुषा प्रवृत्तिः-छागादिवघे प्रवर्तनं तस्या निवारणं' निषेधकम् । अथवा स्वदर्शनेऽपि अनिपुणोत्प्रेक्षया अशुद्धप्रवृत्तिः, कदाचिद् , यथा प्रतिष्ठाप्रस्तावे सूरेः स्वर्णाङ्कितकरत्वकारणमजानाना अशुद्धप्रवृत्तिं श्राद्धप्रतिष्ठाविधानलक्षणां प्ररूपयन्तीति तन्निवारकम् , सिद्धान्तरूपत्वाद् बाचकादिविरचितप्रतिष्ठाकल्पानां ज्ञानानन्तरं च 'सुगुरुवचनासक्ताः' सुगुरुवाक्यानुसारिप्रवृचयः सन्तो जीवा इति गम्यते, पाठान्तरपक्षे तु 'सत्त्वा' जीवा इति साक्षादेव कर्तृनिर्देशः, पुनः कीदृशाः?"भववनं' संसारारण्यमतिक्रान्ता उलंधितवन्तः कीदृशमित्याह, 'दुरन्तं दुखैकावसानं,
तथा 'अनन्तकम्' अनन्तकालवेद्यवेदनीयम् , अनन्ता अतिप्रभूता गताश्च प्राप्ताः, परं परमं पदं मोक्षलक्षणमिति हरिदणीवृत्तार्थः॥ २९ ॥ यतः सुगुरुवचनासक्ताः परमपदं प्राधास्तत् तस्माद् गीतार्थानां' सद्गुरुप्रभृतीनां 'प्रवृत्तिः तत्र तत्र
संपूर्णचैत्यवन्दनचतुर्दशीपाक्षिकप्रतिक्रमणरिबिम्बप्रतिष्ठादी प्रवर्तनं, 'ज्ञात्वा' साक्षात्कारेण अवगम्य, तस्या एव गीतार्यप्रवृत्तेः-'अनुगुणं' तदनुकूलं तदनुसारेणेत्यर्थः, वर्त्तत प्रवृत्रिं कुर्यात्, कोहि आगमानुसारी सततगीतार्थप्रवृत्ती सत्यामेव निषेधवचनाभावे चान्यथा प्रवर्तेत, 'धर्मार्थी' विशिष्टधर्माध्यवसायवान् श्राद्धादिरपि, 'धर्मकार्ये' धर्मानुगतप्रयोजने चैत्यवब्दनादौ, 'न तु' नैव 'स्वमतिविकल्पेन' आत्मीयबुद्धसूत्प्रेक्षणेन, गुरुपदेशमन्तरेण तस्य व्यभिचारित्वात् , किमपि स्वल्पमपि,
109