________________
॥२॥" वाशब्दो विकल्पार्थः, प्रमादं सर्वप्रकारं तं] 'छित्त्वा' सर्वधोन्मूल्य, 'उद्यच्छत' समस्तधर्मकृत्येवूधर्म कुरुत, प्रमादिदरहितस्यैव तस्य स्वफलप्रसाधकत्वादिति भावः: यद्यपि स्वबुना था ताकि पादारिहारेण प्रवर्तते, तथापि च एवमपि
प्रवर्त्तमानस्य कथंचित् प्रबलतरदुष्कर्मोदयवशादनाभोगादिना स्खलिते सति अतिचारादौ प्राप्ता भावयतानुचिन्तयत. 181 इदं वक्ष्यमाणं 'सनिवेद' सवैराग्यं यथा भवतीति गाथार्थः ।। २६ ॥
तदेवाहअवि जिणवयणं मणे मुणंतो विहियमई किल तप्पहेण गंतुं ।
अहह कहमहं महंतमोहोवहयविबोहविलोयलो खलामि ॥ २७ ॥ व्याख्या-अपिविस्मये, 'जिनवचन' प्रमादादिविपाकोपदर्शकं, 'मनसि' चेतसि विदन्नपि, अजानानो हि स्खलत्यपि इत्य४ पेरर्थः, मननस्य मनोव्यभिचाराभावाद् यत् तद्ब्रहणं तत्सातिशयमननख्यापनार्थ, 'जानन्नपि' कदाचिदकरणबुद्धिः कुर्वन् |
स्खलेदपि इत्यत आह-'विहितमतिः' कृतवुद्धिरेव, 'किलेति' आप्तवादे, आप्ता अप्यमुमर्थ साक्षात् कुर्वन्त्येव, 'तत्पथेन' जिनवचनमार्गेण 'गन्तुं' यातुं, 'अहहेति' खेदे, 'क' केन प्रकारेण निःपुण्योऽहमित्यात्मनिर्देशे, 'महामोहः' प्रवलाज्ञानं तेनोपहतं ध्वस्तं विवोधविलोचनं सम्यक्त्वज्ञाननेत्रं यस्य स तथा, ज्ञानस्य फलं विरतिः यदि हिमम तत्त्वतो विबोधः स्यात् ततो न स्खलनं भवेत् , स्खलामि चाई ततो नूनं ध्वस्तो वोध इति पुष्पिताग्रवृत्तार्थः॥२७॥